This page has been fully proofread once and needs a second look.

[^१] दर्शपूर्णमासमयाजयोः संबन्धः कल्थ्प्यः, उपकारोऽपि i
 
किं च आरादुपकारकस्थले हि प्रकरणं विनियोजकम्, इतरत्र तु 'व्रीही-
न् प्रोक्षती' ति वाक्यमेव । व्रीहिपदेनापूर्वसाधनलक्षणां कृत्वा क्रतौ विनि-
योजकमिति बलीयस्त्वम् ।
 
[^२] यदुक्तम्--'अङ्गगुणविरोधे च तादर्थ्यात्' इति न्यायेन दुर्बलत्वमिति,
तदसत्; नहि ब्रीह्याद्युद्देशेन विधीयमानं प्रोक्षणादि तदर्थं भवति, तत्स्वरूपे
आनर्थक्यात्, किन्तु तत्संस्कारद्वारा क्रत्वर्थमेव, सन्निपत्योपकारकाणामु-
त्पत्त्यपूर्वप्रयुक्तत्वस्य वक्ष्यमाणत्वात् । अत उभयविधमप्यङ्गजातं क्रत्वर्थमे-
वेति नाङ्गगुणविरोधन्यायावतारः । दीक्षणीयादेः पर्वानुग्रहस्तु दीक्षणीया-
द्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वा-
नुग्रहेण स बाध्यत इति । तत्सिद्धं सन्निपत्योपकारकस्यारादुपकारकाद्ब-
लीयस्त्वम् ।
 
अतएव "स्थागौ स्थाण्वाहुतिं जुहोती" ति विहिता स्थाण्वाहुतिः यूप-
 
[commentary]
 
वाक्योपादानमनुपपन्नं स्यादित्येकवाक्योपादानान्यथानुपपत्या कल्प्यमित्यर्थः । दर्शपू-
र्णमासप्रयाजादेरिति । दर्शपूर्णमासयोः प्रयाजादीनाञ्चेत्यर्थः । कल्प्य इति ।
तयोः भिन्नस्थले पाठात् समभिव्याहाराभावेन प्रकरणपाठान्यथानुपपत्या परं सम्बन्ध;
कल्प्य इत्यर्थः । उपकारोऽपीत्यनन्तरं कल्प्य इत्यनुषज्यते । एवं च उभयकल्पनापेक्षया
एककल्पनाया लघीयस्त्वेन सन्निपत्योपकारकस्यैव प्राबल्यमायातमिति भावः ।
 
ननु आरादुपकारकस्थलेऽपि उपकार्योपकारकयोरेकप्रकरणपाठरूपादधिकाराख्य-
प्रकरणात् सम्बन्धः क्लृप्त एव । अन्यथा आग्नेयीन्यायोच्छेदापत्तेः; तत्र हि आग्नेय्या
आग्नीधमुपतिष्ठत' इत्यत्र प्रकृताप्रकृतसाधारण्येन सर्वासामग्निदेवताकानामृचां
ग्रहणं उत प्रकरणपठितानामाग्नेयीनामेवेति संदिह्य प्रकृतापूर्वसाधनत्वस्य प्रकृतासु क्लृप्त-
त्वेनोपकारस्य क्लप्तत्वात् द्वारमात्रस्य कल्पनीयत्वात् प्राबल्यम् । अप्रकृतानां तु उप-
कारद्वारयोरुभयोरपि कल्प्यत्वात् दौर्बल्यमिति प्रकृतानामेव ग्रहणमित्युक्तम् । अतः काला-
त्ययापदिष्टोऽयं हेतुरित्यस्वरसादाह--किञ्चेति । इतरत्र सन्निपत्योपकारकस्थले ।
वाक्यमेवेति । अत्र समभिव्याहारमात्रेणाप्यङ्गत्वबोधने प्रकृतकार्यसिद्ध्या सत्या अपि
द्वितीयाश्रुतेरप्रयोजकत्वमभिप्रेत्येदमुक्तमिति ध्येयम् । बलीयस्त्वमिति ।
सन्निपत्योपकारक-
स्येति शेषः ।
 
दृष्टान्ते प्रकृतवैषम्यं निरूपयति यदिति । तदर्थमिति । तन्मात्रार्थमित्यर्थः ।
व्रीहिस्वरूपमात्रोद्देशेन विहितमिति यावत् । क्रत्त्वर्थमेवेति । यद्यप्यस्ति सन्निपत्योपका
रकारादुपकारकयोः उत्पत्त्यपूर्वप्रयुक्तत्वपरमापूर्वप्रयुक्तत्वकृतो भेदः, तथापि क्रत्वर्थत्वमु-
भयोरविशिष्टमित्यर्थः । दीक्षणीयाद्यर्थ एवेति । दीक्षणीयास्वरूपे आनर्थक्यप्रसक्तौ
तज्जन्योत्पत्यपूर्वार्थत्वस्य स्थापितत्वादिति भावः ।
 
प्रधानपर्वानुग्रहेण । प्रधानभूतसोमयागसम्बन्धिन: पर्वरूपस्य कालस्य योऽनुग्रहः
तेन । स दीक्षणीयापर्वानुग्रहः । स्थाणाविति । यूपव्रश्चनापादानभूतः काष्ठविशेषः
 
[^१] दर्शपूर्णमासयोः प्रयाजानुयाजयोः
 
[^२] यच्चोक्त