This page has been fully proofread once and needs a second look.

६४
 
मीमांसान्यायप्रकाशः
 
[ श्रमस्वरूप-
>
 
बलीयः, तस्य दृष्टार्थत्वात्; भारादुपकारकस्य चादृष्टार्थत्वात्, दृष्टे संभव
-
त्यदृष्ट कल्पनस्यान्याय्यत्वात् । प्रोक्षणादि सन्निपत्योपकारकं तु कथं बलोलीयः;

उभयोरदृष्टार्थत्वाविशेषात् ।
 

 
किञ्च आरादुपकारकं साक्षात्प्रधानाङ्गम् तस्यान्योद्देशेनाविधानात् ।

सन्निपत्योपकारकं तु श्रृङ्गाङ्गम् । कर्माङ्गत्व्रीयाधुह्याद्युद्देशेन विधानात् । श्रङ्गाङ्गा
-
पेक्षया च साक्षादङ्गं बलीयः ।
 
2
 

 
'अङ्गगुणविरोधे च तादर्थ्यात्' इति न्यायात् ।
 

 
अत एव 'य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां

वा यजेत' इत्यविशेषविधानेऽपि पर्वानुग्रहः सोमयागस्यैव क्रियते, न तु

दीक्षणीयादेः । अतः कथं सन्निपत्योपकारकस्य बलीयस्त्वम् ।
 

 
उच्यते- सरयष्-सरत्यप्यदृष्टार्थत्वाविशेषे सन्निपत्योपकारकमारा दुपकारकाद्
ब-
लीयः । सन्निपत्योपकारके हि कर्मणि उपकार्योपकारक योयोर्व्रीहिप्रोक्षणयोः

संबन्धो वाक्यक्लृप्तः । उपकारमात्रं तु कल्प्यम् । आरादुपकारकस्थले तु

 
[commentary]
 
सम्भवतीति कथं सन्निपस्त्योपकारकत्वावच्छेदेन प्राबल्यमुक्तमिति शङ्कते- नन्विति ।
श्र
-नन्विति ।
वघातादीत्यादिपदेन दृष्टार्थसन्निपत्योपकारकाणां पेषणश्रपणादीनां ग्रहणम् । उभ-

योः प्रोक्षणादिसन्निपत्योपकारकारादुपकारकयोः ।
 

 
ननु उभयोरदृष्टार्थत्वाविशेषेऽपि द्वितीया श्रवणात् द्रव्यप्राधान्यावगतेः तद्लेन

भवतु सन्निपत्योपकारकस्य प्राबल्यम्, प्रस्तु वा अदृष्टार्थत्वाविशेषादुभयोः समबलस्व-
त्व-
मित्याशङ्कचक्य तदपि न सम्भवतीत्या - ह--किञ्चेति । अङ्गगुणेन प्रधानगुणस्य विरोधे

सति प्रधानगुणानुग्रह एव न्याय्यः, तस्य प्रधानार्थत्वात् इति सूत्रार्थः । य इष्ट्येति ।

अत्र इष्ट्यादीन् यजिनानूद्य वैकल्पिकं कालद्वयं विधीयते । वाशब्दश्रवण। णाच्च न वाक्य-

भेदः, श्रात्मने वा यजमानाय वा यं कामं कामयते तमुद्गायेदितिवत् । विशे
-
षविधानेऽपीति । इष्टेः पशोरङ्गभूतयो!, सोमयामस्य च प्रधानभूतस्य विशेषेण पर्व-

रूपफालविधान इत्यर्थः । न तु दीक्षणीयादेरिति । अयमन्त्र विषयः- -सोमयागे प्रथ-

मदिने कर्त्तव्या दीक्षणीयेष्टिः, चतुर्थदिने कर्तव्योऽग्नीषोमीयः पशुयागः। 'य इष्ट्येति'

वाक्येन च विकृतीष्टिपश्वादावेव सद्यस्कालता विधीयते, न तु प्रकृतौ । तस्याः द्वयका
व्यहका-
लारुद्धत्वादिति निर्णीतं पञ्चमे । एवञ्च दीक्षणीयेष्टिपश्वा देः पर्वकालेऽनुष्ठाने कृते

प्रधानस्य सोमयागस्य पञ्चम्यां प्रतिपदिंदि वा अनुष्ठानापत्तेः ।
पर्वकालबाधः स्यात् । यदि
प्रधानस्य पर्वकालानुग्रहः क्रियेत, तदा दीक्षणीयायास्ततः पूर्वमेकादश्यामनुष्ठानापत्तेः,

पशोश्च चतुर्दश्यामनुष्ठानप्रसक्तेस्तयोः कालो बाध्येत । किमत्र युक्तमिति संदिस्ह्य, प्रधा.
-
नस्यैव कालानुग्रहो

न्याय्यः, न त्वज्ञाङ्गानाम् । श्रुतश्चैकादश्यादौ दीक्षणीयादिकमनुष्ठाय

पर्वणि सोमयागोऽनुष्ठेय इति सिद्धान्तितम् । एवं च प्रधानाङ्गभूतस्यारादुपकारकस्यैव

प्राबल्ये व'कक्तव्ये तत्परित्यज्य अङ्गाङ्गसन्निपत्योपकारकस्य कथं प्राबल्यमुच्यत इत्याक्षेपमुप.
-
संहरति - --अत इति ।
 
-
 

 
सम्बन्धः श्रृङ्गाङ्गिभावः । वाक्यक्लृप्त इति । व्रीहिप्रोक्षणयोरेकवाक्योपादानरू-

पात्समभिव्याहारात्सिद्ध इत्यर्थः । कल्प्यमिति । परस्परमुपकार्योपकारकत्वाभावे एक-