This page has been fully proofread once and needs a second look.

उपयुक्तसंस्कारार्थं च [^१] कर्म उपयोक्ष्यमाणसंस्कारार्थात् दुर्बलम्, उप-
युक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात् । अत एव 'प्रायणीयनिष्कास उदयनी-
यमभिनिर्वपती'त्यत्र निष्कासस्य निर्वापार्थत्वम्, न तु तस्य तदर्थत्वम्,
निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे ।
 
तच्च सन्निपत्योपकारकमारादुपकारकाद्बलीयः । नन्ववघातादि भवतु
 
[commentary]
 
करता, तन्निवर्त्तकमित्यर्थः । पुसेरोडाशादिर्हि प्रधानयागाद्यर्थमुत्पादितो निर्वृत्ते
यागे निर्वृत्तप्रयोजनः श्रवशिष्टांशे कार्यान्तरमपेक्षमाणः उपरितनकार्योपयुक्तं स्थानं
व्याप्नुवन् किमस्या वशिष्टस् कार्यमिति ते मनो वा विक्षिप्तं कुर्वन् तिष्ठति,
 
तस्य हि

कार्यान्तरे इडाभक्षणादौ विहिते स विक्षेपो निवर्त्तते इति ।
 
उपयुक्त संस्कारार्थं च कर्मेति । यदुपयुक्तं पुरोडाशादिकं संस्करोति तत्कर्मेत्यर्थः ।
उपयोदय क्ष्यमाणसंस्कारार्थादिति । कर्मण इति शेषः । क्वचित् पुस्तकेषु कर्मपदं नास्ति ।
तदा एवं व्याख्यातव्यं दृष्टान्तानुरोधेन च । उपयुक्तसंस्कारार्थं चेति । उपयुक्तसं-
स्कारार्थत्वमित्यर्थः । एव मुत्तरत्रापि संस्कारार्थादित्यस्य संस्कारार्थत्वादित्यर्थः । एवं
च सन्निपश्त्योपकारकनिष्ठं यदुपयुक्त संस्कारार्थत्वं तस्य तन्निष्ठोपयोक्ष्यमाण संस्कारार्थत्वापे-
क्षया दौर्बल्यमिति फलितम् । भावप्रधान निर्देशमाश्रित्यार्थान्तपदयोरेवमेवार्थो वर्णनीयः,
अन्यथा दृष्टान्तासङ्गतेः । अत एव उपयोक्ष्यमाणसंस्कारार्थत्वापेक्षया उपयुक्तसंस्कारा-
र्थत्वस्य दौर्बल्यादेव । प्रायणोणीयनिष्कास इति । स्तो ज्योतिष्ठोमे प्रायणीयोदयनीय-
संज्ञकाविष्टिविशेषौ । तत्र द्वितीय दिनानुष्ठेयप्रायणीवायार्थश्चरुः यस्मिन् पक्कःवः तत्पात्रीप्रक्षा-
लनजलं सावशेषलेपं तथैव स्थापयित्वा तस्मिन्नेव जले अवभृथानन्तरं कर्त्तव्याया उद-
यनीयेष्टेः च निर्वापर्रुनिर्वाप कार्यमिति विषयवाक्यार्थः । अत्र यः प्रायणीय निष्कासाधिकर-
क उदयनीयचरुनिर्वापः स प्रायणीयहविस्संस्कारकः ? उतोदयनीयह विस्संस्कारकः ?
इति संदित्ह्य प्रायणीयनिष्कासस्य कृतार्थस्य प्रतिपत्तिसाकाङ्क्षस्येयं प्रतिपत्तिरुपदिश्यत इति
पूर्वपक्षयित्वा उपयुक्तसंस्कारस्त्वापेक्षया उपयोक्ष्यमाणसंस्कारत्वस्य प्राबल्यात् निर्वापार्थ-
त्वमेव निष्कासस्य इति राद्धान्तः कृतः । ([^)] तस्य निर्वापस्य । तदर्थत्वं निष्कासार्थ -
त्वम् । तत्र कारणमाह - -उपयुक्तत्वादिति । एकादश इति । द्वितीय चरणान्त्
इति शेषः ।
 
श्च्चेति । त्रिविमपीत्यर्थः । ननु न सन्निपत्योपकारकस्य तत्त्वेन प्राबल्यम्, आरा.-
दुपार
पकारकस्य वा न स्वरूपतो दौर्बल्यम्, किन्तु तयोः दृष्टफलज कत्व कत्वतद जनकत्व कृते
प्राबल्यदौर्बल्ये वक्तव्ये । तथा च दृष्टार्थानां सन्निपत्योपकारका णामदृष्टार्थारा दुपकारका-
पेक्षया प्राबल्ये सिद्धेऽपि नादृष्टार्थसन्निपत्योपकारकाणामारादुपकारकापेक्षया प्राबल्यं
 
[^.] क्वचित् कर्मेति नास्ति ।
 
३. या
[^२] यत्त्वत्र महामहोपाध्यायश्रीवासुदेवाभ्यङ्करशास्त्रिमहोदयैः प्रभाख्य एतम्याख्याने चातुर्मा.-
स्ये वरुणप्रधाघासे कर्मणि प्रायणीयनाम के दिवसे श्रमिक्षापात्रे यवपिष्टमय मेषमवदाय हुत्वा भाण्डलिप्तो
य आमिक्षावशेषः तन्त्रोदयनीयनिर्वापः श्रुतः । उदयनीयश्चान्तिमो दिवसः इत्याधुद्युक्तम्, तत् सर्वंमभि-
त्तिचित्र।रायितम् । न हि वरुणप्रघासे प्रायणीयोदयनीयौ स्तः । न वा तत्रामिक्षावशेष उदयनीय निर्वाप -
<flag></flag>तः । प्रायणीयोदयनीययोज्योतिष्टोम एव विधानात्' अतो निर्मूल मेवेदं कथनम् ।