This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
६३
 
उपयुक्त संस्कारार्थं च (१) कर्म उपयोदयमाणसंस्कारार्थात् दुर्बलम्, उप
युक्तापेक्षया उपयोक्ष्यमाणेऽत्यादयत् । अत एव 'प्रायणीयनिष्कास उदयनी-
यमभिनितो त्यत्र निष्कासस्य निर्वापार्थत्वम्, न तु तस्य तदर्थत्वम्,
निष्कासस्योपयुक्तत्वादित्युक्तमेकादशे ।
 
तच्च सन्निपत्योपकारकमारादुपकारकाद्वलीयः । नन्ववघातादि भवतु
करता, तन्निवतकमित्यर्थः । पुसेडाशादिर्हि प्रधानयागाद्यर्थमुत्पादितो निर्वृत्त
यागे निर्वृत्तप्रयोजनः श्रवशिष्टांशे कार्यान्तरमपेक्षमाणः उपरितनकार्योपयुक्तं स्थानं
व्याप्नुवन् किमस्या वशिष्टस्थ कार्यमिति ते मनो वा विक्षिप्तं कुवन् तिष्ठति,
 
हि
 
कार्यान्तरे इडाभक्षणादौ विहिते स विक्षेपो निवर्त्तते इति ।
 
उपयुक्त संस्कारार्थं च कर्मेति । यदुपयुक्तं पुरोडाशादिकं संस्करोति तत्कर्मेत्यर्थः ।
उपयोदय माणसंस्कारार्थादिति । कर्मण इति शेषः । क्वचित् पुस्तकेषु कर्मपदं नास्ति ।
तदा एवं व्याख्यातव्यं दृष्टान्तानुरोधेन च । उपयुक्तसंस्कारार्थं चेति । उपयुक्तसं-
स्कारार्थत्वमित्यर्थः । एव मुत्तरत्रापि संस्कारार्थादित्यस्य संस्कारार्थत्वादित्यर्थः । एवं
च सन्निपश्योपकारकनिष्ठं यदुपयुक्त संस्कारार्थत्वं तस्य तन्निष्ठोपयोक्ष्यमाण संस्कारार्थत्वापे-
क्षया दौर्बल्यमिति फलितम् । भावप्रधान निर्देशमाश्रित्यार्थान्तपदयोरेवमेवार्थो वर्णनीयः,
अन्यथा दृष्टान्तासङ्गतेः । अत एव उपयोक्ष्यमाणसंस्कारार्थत्वापेक्षया उपयुक्तसंस्कारा-
र्थत्वस्य दौर्बल्यादेव । प्रायणोयनिष्कास इति । स्तो ज्योतिष्ठोमे प्रायणीयोदयनीय-
संज्ञकाविष्टिविशेषौ । तत्र द्वितीय दिनानुष्ठेयप्रायणीवार्थश्चरुः यस्मिन् पक्कः तत्पात्रीप्रक्षा•
लनजलं सावशेषलेपं तथैव स्थापयित्वा तस्मिन्नेव जले अवभृथानन्तरं कर्त्तव्याया उद
यनीयेष्टेः च निर्वापर्ण कार्यमिति विषयवाक्यार्थः । न यः प्रायणीय निष्कासाधिकर-
एक उदयनीयचरुनिर्वापः स प्रायणीयहविस्संस्कारकः ? उतोदयनीयह विस्संस्कारकः ?
इति संदित्य प्रायणीयनिष्कासस्य कृतार्थस्य प्रतिपत्तिसाकाङ्क्षस्येयं प्रतिपत्तिरुपदिश्यत इति
पूर्वपक्षयित्वा उपयुक्तसंस्कारस्वापेक्षया उपयोक्ष्यमाणसंस्कारत्वस्य प्राबल्यात् निर्वापार्थ-
त्वमेव निष्कासस्य इति राद्धान्तः कृतः । (२) तस्य निर्वापस्य । तदर्थत्वं निष्कासार्थ -
त्वम् । तत्र कारणमाह - उपयुक्तत्वादिति । एकादश इति । द्वितीय चरणान्य
इति शेषः ।
 
तश्चेति । त्रिविषमपीत्यर्थः । ननु न सन्निपत्योपकारकस्य तत्त्वेन प्राबल्यम्, आरा.
दुपार
न स्वरूपतो दौर्बल्यम्, किन्तु तयोः दृष्टफलज न कत्व तद जनकत्व कृते
प्राबल्यदौर्बल्ये वक्तव्ये । तथा च दृष्टार्थानां सन्निपत्योपकारका णामदृष्टार्थारा दुपकारका•
पेक्षया प्राबल्ये सिद्धेऽपि नादृष्टार्थसन्निपत्योपकारकाणामारादुपकारकापेक्षया प्राबल्यं
 
१. क्वचित् कर्मेति नास्ति ।
 
३. यावत्र महामहोपाध्यायश्रीवासुदेवाभ्यङ्करशास्त्रिमहोदयैः प्रभाख्य एतम्याख्याने चातुर्मा.
स्ये वरुणप्रधासे कर्मणि प्रायणीयनाम के दिवसे श्रमिक्षापात्र यवपिष्टमय मेषमवदाय हुत्वा भाण्डलिप्तो
य आ।मिक्षावशेषः तन्त्रोदयनीयनिर्वापः श्रुतः । उदयनीयश्चान्तिमो दिवसः इत्याधुक्तम्, तत् सर्वंमभि-
तिचित्र।यितम्। न हि वरुणप्रघासे प्रायणीयोदयनीयौ स्तः । न वा तत्रामिक्षावशेष उदयनीय निर्वाप -
अतः । प्रायणीयोदयनीययोज्योतिष्टोम एव विधानात्' अतोनिर्मूल मेवेदं कथनम् ।