This page has not been fully proofread.

मोमांसान्यायप्रकाशः
 
[[ श्रङ्ग-
4
 
स्योपकारकाण्या राहुपकारकाणीति चोच्यन्ते । तत्र कर्माङ्गद्रव्याद्युद्देशेन विधी-

यमानं कर्म सन्निपत्योपकारकम् । यथा - अवघातोशणादि । तच दृष्टार्थम-

दृष्टार्थ दृष्टादृष्टार्थं च । दृष्टार्थमेवघातादि । अदृष्टशथं प्रोक्षणादि । द्वष्टादृष्टा

पशुपुरोडाशयागादि । तद्धि द्रव्यश्यागांशेनादृष्टं देवतोद्देशेन च देवतास्म

रणं दृष्टं करोति । इदमेव वाश्रमिकमैत्युच्यते ।
 

 
तच सन्निपत्योपकारकं द्विविधम् - उपयोक्ष्यमाणार्थमुपयुक्तार्थं चेति ।

तत्रावघातप्रोक्षणादि उपयोक्ष्यमाणार्थम्, बोहोणां यागे उपयोक्ष्यमाणत्वा-

•त् । प्रतिपत्तिकर्म इडाभक्षणादि उपयुक्तपुरोडाशादिसंस्कारकम् । उपयु-

कस्या (१) कीर्णकरतानिवर्तकं कर्म प्रतिपत्तिकर्म ।
 

 
८२
 

 
संबध्य उपकुर्वन्तीति सन्निपस्योपकारकाणि । आरादुपकारकाणीति । आराव

साक्षात् द्रव्यादिसंबन्धमन्तरा उपकुर्वन्तीत्यारादुपकारकाणि ।
 

 
तत्र सन्निपत्योपकार कारादुपकारक योर्मध्ये । प्रोक्षणादीत्यादिपदेन स्विष्टकृत्पशु-

पुरोडाशयागेडाभक्षणादयो गृह्यन्ते । सन्निपस्योपकारकं विभजते - तथ्चेति । दृष्टः

प्रत्यक्षावगतः अर्थः प्रयोजनं यस्येति विग्रहः । श्रदृष्टार्थमिति । अदृष्टं अपूर्व अर्थ

प्रयोजनं यस्येति विग्रहः । अवघातादीत्यादिपदेन पेषणसंयवनादयो गृह्यन्ते । प्रोक्ष-

गादीत्यादिपदेन पात्रा निपरिधि सम्मार्गपर्यग्निकरणादयो गृह्यन्ते । सम्मार्गादयो हि पूर्व-

शोधितेष्वेव पात्रेषु पुनः क्रियन्ते । स्तन केवलमदृष्टमन्तरा न किञ्चित् दृष्टं प्रयोजन

मस्तीति भावः । पशुपुरोडाशेति । पशुयागाजभूतः यस्तद्देवताकः पुरोडाशयागस्स

इत्यर्थ: । पशुपुरोडाशयागादीत्यादिपदेन स्विटद्वाजिनयागादयो गृह्यन्ते । कथमे-

षामुभयार्थता ? तदुपपादयति- तहीति । अस्ति यागादौ अंशत्रयं - उद्देशांशः, त्यागां-

शः, प्रक्षेपांशश्चेति । उद्दिश्य हि काश्चन देवतां हविस्त्यज्यते । त्यक्तस्य द्रव्यस्य विहित -

देशे अग्न्यादौ प्रक्षेपश्च क्रियते । अत पशुपुरोडाशयागादी त्यागांशेनादृष्टं परमुत्पा.

द्यते न किश्चित् दृष्टं प्रयोजनम् । उद्देशांशेन पूर्व वपायागे उपयुक्तायाः हृदयाद्यङ्गयागे

चोपयोक्ष्यमाणायाः देवतायाः स्मरणरूपं दृष्टं प्रयोजनमुत्पाद्यते। पुरोडाशयागकाले

स्मृताया देवतायाः हृदयाद्यज्ञयागकाले शीघ्रोपस्थितिसम्भवादिति पुरोडाशयागः दृष्टादृ-

रूपोभय प्रयोजनकश्चात् दृष्टादृष्टार्थ इत्यर्थः । उभयार्थसन्निपत्योपकारकस्य नामान्तरं

ज्ञापयति- इदमेव चेति । यत् दृष्टादृष्टार्थ कर्मानुपदमुक्तं तदेवेत्यर्थः । यथाहुः पार्थ-

सारथिमिश्रा:- दृष्टादृष्टंच किञ्चित् कर्म, यदाश्रयिशब्दाभिधानायकं भजते,

यथा पशुपुरोडाशयाग इति । एवञ्च 'इदमेव व सन्निपत्योपकारकमेव
 

 
न त्यारादुपकारक मित्यर्थः' इति सन्नित्योपकारकस्य निखिलस्यापि श्राश्रयिक स्व

वदन् अर्थसङ्ग्रहव्याख्याता निरस्तो वेदितव्यः ॥
 

 
सन्निपस्योपकार कमङ्ग विमजते. -तश्चेति । उपयोक्ष्यमाणार्थमिति । उत्तर

यागे उपयोक्ष्यमाणं यत् व्रीह्यादि तदर्थमित्यर्थः । तदेवोपपादयति- ब्रीहीणामिति ।

आकीर्ण करता निवर्त्तकमिति । श्राकीण संकीर्ण व्याप्तं करोतीत्या कीर्यारम्, तत्ता

१ कीर्णतानिव,