This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ समाख्या-
( समाख्यानिरूपणम् )
 
समाख्या यौगिकः शब्दः । सा च द्विविधा - वैदिकी लौकिकी चेति ।
तत्र होतुः 'चमसभक्षणाङ्गत्वं 'होतृचमस' इति वैदिक्या समाख्यया । अध्व
यस्ततत्पदार्थाङ्गत्वं लौकिक्या 'भाध्वर्यव' मितिस माख्ययेति संक्षेपः ।
तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि ।
ति । वैदिकी । वेदे श्रुता । लौकिकी याशिकसम्प्रदायसिद्धा ।
श्रुत्यादिनिरूपणमुपसंहरति - तदेवमिति ॥
 
एवं श्रुत्योर्विरोधे- ऐन्द्रीमन्त्रस्यैव तद्धितश्रुत्या प्राप्तमिन्द्राङ्गत्वं बाधिस्वा तृती-
या श्रुत्या प्रवलया गाईंपत्या त्वम् ।
 
८०.
 
लिङ्ग योर्विरोधे- मुख्यसामर्थ्येन गौण सामर्थ्यस्य बाधः, यथा- 'बर्हिर्देवसदनं
दामी' त्यत्रैव गौणसामर्थ्य प्राप्तमुल पराजिल वनाभस्वं बाधित्वा मुख्यसामर्थ्येन बहिल
वनाङ्गत्वम् ।
 
वाक्ययोर्विरोधे- 'सरा वा एषा यज्ञस्य । 'तस्मात् यत्किञ्चित्प्राचीनम.
ग्नीषोमीयात् तेनोपांशु चरन्ति' इत्यत्रोपांशुत्वस्य व्यवहितयज्ञपदसम्बन्धरूपं वाक्यं
बाघित्वा सन्निहितयत्किञ्चिरपद सम्बन्धरूपात् वाक्यात् भागधर्मत्वम् ।
 
क्रमयोर्विरोधे–काम्येष्टिका एडपठित योर्द्वयोर्याज्ययोरिन्द्राग्नि देवतयोस्सन्निधाना•
विशेषादैन्द्राग्नद्वयाङ्गत्वमनियमेन प्राप्स्यमानं बाधित्वा यथासंख्यपाठात् प्रथमस्य प्रथ
माङ्गत्वम्, द्वितीयस्य द्वितीयाङ्गत्वम् ।
 
समाख्ययोर्विरोधे- श्राब्वर्यवमिति सामान्यसमाख्यां बाधित्वा याजमान मिति
विशेषसमाख्यया याजमानेषु पदार्थेषु यजमानकर्तृत्वम् ।
 
एवं श्रुतिवाक्ययोर्विरोधे- श्रारुण्यस्य वाक्या दे कहायन्यङ्गत्वं प्राप्यमानं
बाधित्वा तृतीयाश्रुत्या क्रयाङ्गत्वम् ।
 
-
 
-
 
श्रुतिप्रकरणयोर्विरोधे- 'एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्य इत्यादीनां
सामिधेन्यनुवचनानां प्रकरण दर्शपूर्ण मासाङ्गत्वं बाधित्वा षष्ठी श्रुत्या प्रतिष्ठादिरूपफलार्थखम् ॥
श्रतिक्रम योर्विरोधे- रशनाधर्माणां त्रिवृत्त्वदर्भमयीत्वादीनां क्रमादग्नीषोमीया-
नत्वं बाधित्वा श्रुत्या यूपाजत्वम् ॥
 
-V
 
श्रुतिसमाख्ययोर्विरोधे- पौरोडा शिकमिति समाख्याते दर्शपूर्णमास काण्डे पठि
तानां 'इषे त्वे'त्यादीनां समाख्यया पुरोडाशाङ्गत्वं बाधित्वा 'इषे वेति शाखां छिन
त्ति' इतीतिकरणरूपया श्रुत्या शाखाछेदनाङ्गत्वम् ॥
 
एवं लिङ्गप्रकरणयोर्विरोधे- पूषानुमन्त्रण मन्त्रां प्रकरणात दर्शपूर्णमासयागा-
त्वं बाधित्वा लिङ्गात् पूषयागाङ्गत्वम् ॥
 
लिङ्गस्थान योर्विरोधे– ज्योतिष्टोंमप्रकरणे भक्षावांन्तरप्रकरणे श्रुतयोः भक्षणा-
र्थानुज्ञापनानुज्ञार्थयोर्मन्त्रयोः 'उपहूत उपयस्वे' त्यनयोः क्रमात् प्रथमस्यानुज्ञापना.
धंत्वे द्वितीयस्य चानुज्ञार्थत्वे प्राप्ते तद्बाधित्वा लिनात् द्वितीयस्यानुज्ञापने प्रथमस्य
चानुज्ञायां विनियोगः ॥
 
-