This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
लारविवेचिनोव्याख्या संवलितः
 
G
 
समाख्या निषादस्थपतिशब्दवन्न षष्ठ्यर्थसंबन्धवाचिका । नापि वाक्यवत्तद्वो-
बो-
धिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरोडाशिक मित्यादिसमाख्यास्त्वतिदु-

र्बला, लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वात् काण्डगोचरत्वेन तत्तत्पदार्था-

गोचरत्वाच्च । काण्डवाचकत्वमपि न काण्डत्वेन, किं तु पौरोडाशिकत्वादि-

नैव । न ह्येकहायनोनीशब्दो द्रव्यवाचकोऽपि गोत्वेन ([^)] तद्वदति, किं तर्हि ?

एक हायनीत्वेनैव ।
 

 
स्थान विनियोगे तु पदार्थयोर्विशेषपुरस्कारेणैव संबन्धः प्रत्यक्षप्रमाण-

प्रतिपन्नः । अतश्च समाख्यामुपलभ्य नूनमनयोः पदार्थयोः संबन्धोऽस्तीति

यावत्कल्प्यते तावत्प्रत्यक्षप्रतिपन्नेन संबन्धे परस्परमाकाङ्क्षा, तदभावे च

संबन्धानुपपत्तेः कल्पितसंबन्धेन च यावदितरत्राकाङ्क्षादि ([^)] कल्पना तावद-

न्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य

समाख्यातः प्राबल्यम् । अत एव शुन्धनमन्त्रः सान्नाय्यपात्राङ्गं, पाठसा दे
-
श्यात् ; न तु पौरोडाशिकसमाख्यया पुरोडाशपात्राङ्गमिति ॥
 

 

 
[commentary]
 
ननु वाचकत्वाभावेऽपि वाक्यार्थस्य वाक्यावाव्च्यस्य यथा वाक्यतः प्रतीतिरभ्युपगभ्म्यते,

एवं पदावाच्यस्यापि पदयोबोध्यत्वमस्तु - --नापीति । तोतद्बोधिका सम्बन्धबो.
 
७६
 
>
 
घि
-
धि
का । तस्याः समाख्यायाः । पदत्वेनेति । प्रमाणीधीनत्वात् स्तुसिद्धेः केवलस्य

पदस्य शाब्दबोधरूपप्रमित्यजनकत्वेन प्रामाण्यासग्भवादिति भावः । एवं वैदिक्यां समा-

ख्यायां सम्बन्धावाचकत्वं सङ्गमय्येदानीं लौकिक्यां तत्सङ्गमयति- -पौरोडाशिकमिति ।

पौरोडाशिकम्, हौस्त्त्रम् श्रध्वर्यवम् इत्यादिकास्समाख्या याशिज्ञिकैरेव पुरुषैः कल्पि-

ताः । अतस्तदर्थनिश्चयायं तत्कल्पकपुरुषीयज्ञानयाथार्थ्यनिश्चयोऽपेक्षणीयः । अतः

प्रमाणान्तरसापेक्षत्वान्न झटिति निश्चयमादध्यादिति भावः । काण्डगोचरत्वेनेति ।

काण्ड विशेषस्यैव तादृशसमाख्या विशिष्टत्वादिति भावः । ननु पौरोडाशिकत्वेनापि

काण्ड एव गोचरीभवतीति को विशेष :षः ? अत आह--नहीति । द्रव्यवाचकोऽपीति ।

एक हायनी शब्दस्य बहुव्रीहित्वात् तस्य चान्यपदायेंर्थे शक्त्यङ्गीकारादिति भावः । एकहा-

यनीत्वेनैवेति । एतादृशस्थले वाच्यस्य द्रव्यस्वरूपस्य भेदाभावेऽपि प्रवृत्तिनिमित्त भे
-
दमादायैव सहप्रयोग उपपादनीयः । अन्यथा पर्यायत्वापत्तरेकहायन्या गवा सोमं

क्रीणातीति सहप्रयोगो न स्यादिति भावः । इतरत्र समाख्यास्थले । अन्यत्र स्थानवि-

नियोगे । शुन्धनमन्त्र: 'शुन्धध्वं दैव्याय कर्मणे देवयज्यायै' इति मन्त्रः । पौरो.
-
डाशिक मिति समाख्याते मन्त्रकाण्डे सान्नाय्ययागाङ्गसन्निधौ शुन्धध्वमिति मन्त्र आम्ना.
-
तः । स पाठसादेश्यरूपात् स्थानात् सान्नाय्यसम्बन्धिपात्रप्रोक्षणाङ्गमित्यर्थः । पात्राङ्गं पात्र-

प्रोक्षणाङ्गम् । कुम्भी, शाखापवित्रम्, अभिधानी, दोहनपात्रमित्यादीनि सान्नाय्यपात्रा-

'णि । उल्लूखलम्, मुसलम्, कृष्णजिनम्, हृदृषदुपले, इत्यादीनि पुरोडाशपात्रणि ।

 
( समाख्या निरूपणम् )
 
1
 

 
एवं स्थानगतं समाख्यातः प्राबल्यं निरूप्येदानीं समाख्यां निरूपयति- -समाख्ये.
-
 
[^
.] द्वदिता [^.] कल्प्यते
 
9
 
-