This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
स्यात्, ? तद्विशेषवाचिका वा ? । नाद्यः । तदुक्कोतौ प्रयोजनाभावात् । सर्व-

यौगिकशब्दानां पर्याय तापत्तेश्च । द्वितीये ऽवश्यं संबन्धिनोनौ वाच्यौ । तदन्त
-
रेण संबन्धे विशेषाभावात् । तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चा-

वश्यं संबन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथा च न संबन्धवाचकत्वं,

संबन्धिप्रतिपस्त्त्यैव वाक्यार्थप्रतिपत्ति न्यायेन तत्प्रतिपत्तिसंभवे तत्र शक्तिक-

ल्पने गौरवात् । यथाद्दुः-
हुः--
 
सर्वत्र यौगिकैः शब्दै द्रव्य मेवाभिधीयते ।
 

नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ इति ।
 

 
तथा-
-
 
[ स्थान-
-
 
-
 
पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽ<flag>ध्य</flag>कः ।

पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥ इति ।

तथाच समाख्या न संबन्धवाचिका । 'होतृचमस' इत्यादिका तु वैदिकी
 

 
[commentary]
 
न्धं व्यवच्छेत्तुमित्यवश्यं सोऽप्यभिधातव्यः । न चैकस्मिन् सम्न्धिनि सम्बन्धो व्यवति
-
ष्ठते । न च तन्मात्राभिषाधाने नोभयनिष्ठस्सम्बन्धोऽवगन्तुं शक्यत इत्यपरोऽपि सम्बन्ध्यभि-
घे

धे
यः । तत्र गोमानित्यादौ गोशब्देनैको गोरूपस्सम्बन्ध्यभिधीयते, द्वितीयस्य तु न कश्चि
-
दभिधाता दृश्यते । अतश्च सम्बन्धविशेषमभिदधता मतुपा तद्वन्तमेकमनुक्त्वा सम्बन्ध-

विशेषमभिधातुमशक्नुवता अवश्यं द्वितीयोऽपि सम्बन्ध्यभिघाधातव्यः । ततश्च तमभि
-
धाय पुनस्सम्बन्बाधाभिधानेऽत्यन्तं गौरवमिति । तदुक्तौ सम्बन्धसामान्योक्तौ । तदन्त-

रेण सन्बन्धिनावन्तरेण । विशेषाभावादिति । भूतले घटः, आकाशे शब्दः, इत्यादौ

संयोगसमवायादिसम्बन्धानां तत्तत्सम्न्ध्येक निरूप्यत्वादिति भावः । तत्प्रतिप्रत्तिम-

न्तरेण सम्न्धिप्रतिपत्तिमन्तरेण । वाक्यार्थप्रतिपत्तिन्यायेनेति । यथा वाक्ये पदा.
-
र्थानां परारस्परसम्बन्धो वाचकशब्दं विनैव समभिव्याहारादेव भासते तद्वदत्रापि प्रकृतिप्र
-
त्यययोः समभिव्याहारबलादेव सम्न्धप्रतीतिर्भविष्यतीत्यर्थः । अत्र वार्तिकं प्रमाणयति-
-
सर्वत्रेति । स्पष्टोऽर्थः । पाकन्भिवत्विति । पाचक इत्यत्र पचिधातुः पार्ककं ब्रूते, तदुत्तरं

श्रूयमाणः कर्त्रर्थकण्वुल्प्रत्ययादेशभूतोऽक इत्यंशः कर्तारं ब्रूते । तयोस्सम्बन्धस्तु न केना-

प्युच्यत इत्यर्थः । प्रकृतिप्रत्यययोः सम्बन्धबलादेव तस्य प्रतिपत्तिसम्भवादिति भावः ।
 

 

 
समाख्यायास्सम्बन्धावाच कत्वमुपसंहरति--तथा चेति । एवं सामान्यतस्समाख्यायाः

सम्बन्धावाचकत्वमुपवर्ण्यं तद्विशेषभूतयोर्लौकिक वैदिकयोस्समाख्ययोः तत् सङ्गमयितुः
तु-
कामः प्रथमं वैदिकसमाख्यायां तत् सङ्गमयति--होतृचमस इति । तुशब्दो ह्य
र्थे ।
निषादेति । "एतया निषादस्थपतिं याजयेत्" इत्यत्र निषादानां स्थपतिः इति

षष्ठीतत्पुरुषो वा निषादश्चासौ स्थपतिश्चेति कर्मधारयो वेति सन्दिह्य षष्ठीतत्पुरुषाङ्गी
-
कारे पूर्वपदे सम्बन्धिलक्षणाशी करण्याङ्गीकरणापत्तिरूपं दोषमुद्भाव्य तदपनुत्तये कर्मधारयसमासा-

भ्युपगम एव श्रेयानिति सिद्धान्तितं षाष्ठप्रथमे । तेन निश्चीयते- -निषादस्थपतिशब्दो न

षष्ठ्यर्थ सम्बन्धवाचीति । एवञ्च यथा निषादस्थपतिशब्दः लक्षणाकल्पनादिरूपगौरव भिया

न षष्ठपठ्यर्थसम्बन्धवाचकः एवं होतृचमसशब्दोऽपि न षष्ठ्यर्थभूतसम्बन्धवाचक इत्यर्थ:
 

 
थः ।