2023-02-20 11:47:23 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
स्यात्, ? तद्विशेषवाचिका वा ? । नाद्यः । तदुक्को प्रयोजनाभावात् । सर्व-
यौगिकशब्दानां पर्याय तापत्तेश्च । द्वितीये ऽवश्यं संबन्धिनो वाच्यौ । तदन्त
रेण संबन्धे विशेषाभावात् । तत्प्रतिपत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चा-
वश्यं संबन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथा च न संबन्धवाचकत्वं,
संबन्धिप्रतिपस्यैव वाक्यार्थप्रतिपत्ति न्यायेन तत्प्रतिपत्तिसंभवे तत्र शक्तिक-
ल्पने गौरवात् । यथाद्दुः-
सर्वत्र यौगिकैः शब्दै द्रव्य मेवाभिधीयते ।
नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ इति ।
तथा-
-
[ स्थान-
-
पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽध्यकः ।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥ इति ।
तथाच समाख्या न संबन्धवाचिका । 'होतृचमस' इत्यादिका तु वैदिकी
न्धं व्यवच्छेत्तुमित्यवश्यं सोऽप्यभिधातव्यः । न चैकस्मिन् सम्वन्धिनि सम्बन्धो व्यवति
ष्ठते । न च तन्मात्राभिषाने नोभयनिष्ठस्सम्बन्धोऽवगन्तुं शक्यत इत्यपरोऽपि सम्बन्ध्यभि-
घेयः । तत्र गोमानित्यादौ गोशब्देनैको गोरूपहसम्बन्ध्यभिधीयते, द्वितीयस्य तु न कश्चि•
दभिधाता दृश्यते । अतश्च सम्बन्धविशेषमभिदधता मतुपा तद्वन्तमेकमनुक्त्वा सम्बन्ध-
विशेषमभिधातुमशक्नुवता अवश्यं द्वितीयोऽपि सम्बन्ध्यभिघातव्यः । ततश्च तमभि
धाय पुनस्सम्बन्बाभिधानेऽत्यन्तं गौरवमिति । तदुक्तौ सम्बन्धसामान्योक्तौ । तदन्त-
रेण सन्बन्धिनावन्तरेण । विशेषाभावादिति । भूतले घटः, आकाशे शब्दः, इत्यादौ
संयोगसमवायादिसम्बन्धानां तत्तत्सम्वन्ध्येक निरूप्यत्वादिति भावः । तत्प्रतिप्रत्तिम-
न्तरेण सम्वन्धिप्रतिपत्तिमन्तरेण । वाक्यार्थप्रतिपत्तिन्यायेनेति । यथा वाक्ये पदा.
र्थानां परारसम्बन्धो वाचकशब्दं विनैव समभिव्याहारादेव भासते तद्वदत्रापि प्रकृतिप्र
त्यययोः समभिव्याहारबलादेव सम्वन्धप्रतीतिर्भविष्यतीत्यर्थः । अत्र वार्तिकं प्रमाणयति-
सर्वत्रेति । स्पष्टोऽर्थः । पाकन्भिवति । पाचक इत्यत्र पचिधातुः पार्क ब्रूते, तदुत्तरं
श्रयमाणः कर्त्रर्थकण्वुल्प्रत्ययादेशभूतोऽक इत्यंशः कर्तारं ब्रूते । तयोस्सम्बन्धस्तु न केना-
प्युच्यत इत्यर्थः । प्रकृतिप्रत्यययोः सम्बन्धबलादेव तस्य प्रतिपत्तिसम्भवादिति भावः ।
।
समाख्यायास्सम्बन्धावाच कत्वमुपसंहरति-तथा चेति । एवं सामान्यतस्समाख्यायाः
सम्बन्धावाचकत्वमुपवर्ण्यं तद्विशेषभूतयोलौकिक वैदिकयोस्समाख्ययोः तत् सङ्गमयितुः
कामः प्रथमं वैदिकसमाख्यायां तत् सङ्गमयति-होतृचमस इति । तुशब्दो ह्य
निषादेति । "एतया निषादस्थपतिं याजयेत्" इत्यत्र निषादानां स्थपतिः इति
षष्ठीतत्पुरुषो वा निषादश्चासौ स्थपतिश्चेति कर्मधारयो वेति सन्दिह्य षष्ठीतत्पुरुषाङ्गी
कारे पूर्वपदे सम्बन्धिलक्षणाशी करण्यापत्तिरूपं दोषमुद्भाव्य तदपनुत्तये कर्मधारयसमासा-
भ्युपगम एव श्रेयानिति सिद्धान्तितं षाष्ठप्रथमे । तेन निश्चीयते- निषादस्थपतिशब्दो न
षष्ठ्यर्थ सम्बन्धवाचीति । एवञ्च यथा निषादस्थपतिशब्दः लक्षणाकल्पनादिरूपगौरव भिया
न षष्ठपर्थसम्बन्धवाचकः एवं होतृचमसशब्दोऽपि न षष्ठयर्थभूतसम्बन्धवाचक इत्यर्थ:
•