2023-02-20 11:46:08 by ambuda-bot
This page has not been fully proofread.
श्रीः
द्वितीयसंस्करणभूमिका
C
भगवतः परमेष्ठिनः परमकृपया द्वितीयसंस्करणाय प्राप्तावसरोऽयं मीमांसान्यायप्र
काशः सारविवेचिनीसंवलित इति मइदिदं प्रमोदस्थानम् । सत्त्वपि व्याख्यान्तरेषु बहुषु
सारविवेचिन्याः पुनर्मुद्रणावश्यकता जातेत्यनेनानुमीयते - विद्वद्वणश्छात्रा च तस्यै स्पृह
यन्ति विशेषत इति । प्रायः पञ्चषेभ्यो वत्सरेभ्यः प्रभृत्येव विपण्यां सार विवेचिन्या दुष्प्रा.
पतां पुनश्च तन्मुद्रणाय छात्राणामभ्यर्थना श्वेतस्ततश्श्शृण्वन्तोऽपि वयं सामग्रीविरहेण
भृशं क्लिश्यतो मुद्रणालयाध्यक्षानवलोकयन्तो जोषमास्महि । परमिदानीं परमेशकृपया
किञ्चिदिव लब्धसाधनश्चौखम्बामुद्रणालयाध्यक्षः अस्याः पुनर्मुद्रणाय कृतसन्नाहः तत्सं•
शोधनकार्याय श्रीमतः ( व्याख्या न् ) शास्त्रिपादानभ्यर्थयत् । शास्त्रिपादाभ बहुषु
कार्यान्तरेषु भृशं व्यापृततयाऽलब्धसंमया अपि कथं कथमपि समयं संपाद्य व्याख्यामिमां
पुनस्संस्कृत्य परिवर्ध्य च क्वचित्क्कचिदावश्यकस्थलेषु, संशोधनकायें मां न्ययूयुजन् ।
अहं तु तत्परमं भागधेयं मन्वानः प्रावतिषि संशोधनकार्ये । तत्र मूलपाठसंशोधन याद्य
यावन्मुद्रिताः कोशा उपयोजिताः । तदतिरिक्तश्च कश्चन तालपत्रेषु प्रन्थाक्षरलिखितो
न्यायप्रकाशो यः शास्त्रिपादैर्वर्षेभ्य उपदशेभ्यः पूर्वं दक्षिण देशेऽस्मद्ग्रामे करमाच्चिल-
ण्डितगृहादुपलब्ध प्रासीत्सोऽप्युपयोजितः, यत्रस्था: पाठभेदाः सङ्गततमा आसन् ।
बहुत्र तान् युक्ततमान्मन्वानेन मया ते तत्र तत्र मूले समावेशिताः । टिप्पण्यपि क्वचि
स्क्वचित् पूर्वसंस्करण ।पेक्षयाऽधिका संयोजिताऽऽवश्यकतां मत्वा । मूलव्याख्ययोदभूतानां
विषयवाक्यानां सूच्यप्यन्ते निबद्धा । मन्ये साप्युपकाराय भवेन्मनीषिणामधीतिनां चेति ।
मीमांसा शब्दार्थः
%
इह तावत्सुखस्पृहयालूनां जनानां तदौपयिक साधनसंपिपादयिषा दुःखत्रातजिहा
सुनां तदारम्भकसामग्री विमुखीभावश्च नितरामावश्यक इति निर्विवाद सिद्धमिदम् । तदर्थं
व तदवबोधक प्रमाणान्वेषणे कृतयत्नाः श्रन्यदेकान्तिकं किञ्चनपश्यन्तः प्रमाणम्,
अलौकिक पुरुषबुद्धिदोषलेशासंस्पृष्टमतिगभीरमने कार्थगर्भ कञ्चन शब्दराशिमेव प्रामा-
गयाय शरणीकुर्वन्ति यो वेदश्रुत्याम्नाया दिशब्दै रमिधीयते । तत्र च निगूढतत्वाव
बोधक विचारमन्तरा श्रगतप्रतीतेऽर्थेऽविश्वसन्तः चारुतरं विचारं कञ्चन कामयन्ते
तदर्थनिर्णयाय । सैव च विचारचातुरी मीमांसापदेनाऽभिधीयते । मीमांसाशब्दो हि
"मान्यधदान्शान्भ्यो दीर्घभाभ्यासस्य" इति सूत्रेण सन्प्रत्यये प्रभ्यासेकारस्य दीर्घे च
कृते ततः अप्रत्यये टापि च कृते निष्पन्नः । तस्य च "मानेजिंज्ञासायाम्" इति वार्ति
कबलाज्जिज्ञासार्थकत्वे सिद्धेऽपि विचारलक्षकत्वं शास्त्रकृद्भिरक्रियते । न केवलं सा-
धारणो विचारः, किन्तु पूजितविचारः । तथा हि भामस्यां वाचसतिमिश्रा: "पूजित
विचारवचनो मीमांसाशब्दः । परमपुरुषार्थ हेतुभूतसुक्ष्मतमार्थनिर्णयफलता विचारल्य
पूजितता" इति । एवं च क्वचिदपि कार्येऽविचार्या प्रवृत्ति प्रेक्षावतां प्राश्यन्ती तेषाम•
9
4
-