This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
तेन तीर्थान्तरेभ्यः प्रकृष्टसु-
क्वचन गिरिकुडुङ्गे संभूतिरिति ध्वन्यते;
तेन तीर्थान्तरेभ्यः प्रकृष्टसु-
कृतप्रसावकत्वं च । जह्रोःनोः कन्यां महातपस्विनो राजधैर्षेर्जदोह्नोर्धर्म-

पक्षपातेन पुत्नीरीत्वमुपगताम् । अनेन तत्तादृशमहिमनिधेरपि देव्या-

स्तपस्विषु सविनयत्वम्, ततश्च तपसोऽनतिक्रमणीयवीर्यत्वं च प्रती-

यते । सगरतनयस्वर्गसोपानपतिड़्क्तिं सगरपुत्राणां षष्टिसहस्रस्य कपि-

लमुनिकोपजातवेदसि शलभीभूतानामलब्धपुण्यगतीनां स्वर्गारोह-

णस्य सोपानपरंपराभूताम्, तज्जलस्पर्शनानन्तरं तेषां चिताभस्मभू-

तानां पुण्यलौलोकारोद्दणदर्शनात् । अनेनाबुद्धिपूर्वकमासेनेऽपि तस्याः

प्रभूतदुरितप्रक्षालनक्षमत्वम्; प्रबलभक्तिश्रद्धापुरःसरत्वे तु किंपुन-

रिति प्रकाश्यते । 'अपहृत्य तमस्तीव्रं यथा भात्युदये रविः ।

तथापहृत्य पाप्मानं गङ्गा भाति सरिद्वरा ॥ इति, 'श्रुताभिलषिता

दृष्टा पृष्टा पीतावगाहिता । या पावयति भूतानि कीर्तिता च दिने

दिने ॥' इत्यादिपुराणवचनानि । अथ तस्याः पावनत्वातिशय-

हेतुं भङ्गया प्रकाशयति-- गौरीक्त्रे श्रीपार्वत्या मुखे । भ्रुकुटि-

रचनां निजप्रणयतपोविशेषैर्निर्व्याजक्रीते स्मरहरशरीरे योषिदन्तर-
स्पर्शमसइ

स्पर्शमसह
मानाया देव्याः सपत्नीरोषसंभूतां ललाटकुटिलसिराविक-
कृ-
तिम् । विस्येव सौभाग्यसंभूतेन मदेनानादरादपहस्येवेत्युत्प्रेक्षा ।

फेनैरिति । धवलत्वातिशयेन दशनकिरणविशदहासविलाससाधर्म्
ये
फेनानां प्रतीयते । केशग्रहणमकरोत् जटाजूटकोटरमाश्रितवती ।

अतिरागिण्या रमण्या दयितमुखाम्बुजचुम्बने क्रियमाणे यत् शिरो-
कद्दा

रुहा
कर्षणम्, तत् कृतवतीवेत्यर्थः । तत्र हेतुः -- इन्दुलग्नोर्मिहस्ता

शिरःशेखरीभूत शिशिरकरकलाकलितकल्लोलकरेति यत्, अत इति
 
७८