This page has not been fully proofread.

1
 
प्रथमाश्वासः ।
 
बाद
 
सात्विकतया तव तादृशेष्वेव बहुमतिरिति प्रकाश्यते । सारस्वतीनां
सरस्वत्याख्य महानदीसंबन्धिनीनाम् । अन्तः शुद्धः रजस्तमोमलवि-
युक्तान्तरात्मा, धवल इत्यपि स्फुरति । भविता असि भविष्यसि ।
भवितेति तृजन्तमिदं रूपं भविष्यत्काले । वर्णमात्रेण बाह्यरूपेणैव
श्यामः सलिलगर्भस्यैव नैल्योदयात्, मलिन इति च स्फुरति । 'मात्रं
कार्येऽवधारणे' इति वैजयन्ती । अत्रोदात्तं विरोधश्चालंकारः ॥
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णा
जह्नोः·कन्यां संगरतनयस्वर्गसोपानपङ्किम् ।
गौरीवक्रे भ्रुकुटिरचनां या विहस्येव फेनैः
 
शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥
अथ तव मङ्गलान्मङ्गलसंपत्तिः, यतः कुरुक्षेत्रादनन्तरं गङ्गा-
द्वारे भगवती भागीरथी द्रक्ष्यत इत्याह -- तस्मादिति । तस्मात्
कुरुक्षेत्रात् । अनुकनखलं कनखलाख्ये शैले; 'गङ्गाद्वारं युधिष्ठिरं।
पुण्यं तत्ख्यायते राजन् ब्रह्मर्षिगण सेवितम् । सनत्कुमारः कौरव्य
पुण्यः कनखलस्तथा । पर्वतश्च पुरुर्नाम यत्न जातः पुरूरवाः' इति
भारतोक्तेः । शैलराजावतीर्णो हिमवतो भारतवर्षप्रारम्भेऽवतीर्ण-
मात्राम् अवतीर्णो न तु जाताम् । अनेन त्रिभुवनविक्रममाणस्य
बलिरिपोरूर्ध्वप्रवृत्त चरणपुण्डरीकवेगखण्डितब्रह्माण्डविवरनिष्ठभूतवा-
रिपूरपरिपोपित विरिञ्चकरकुण्डिकाजलोपोद्वलित धर्मदेवताद्रवरूपाया:,
शिवजटाजूटविधृतवेगायाः सुमेर्वादिक्रमेण हिमवन्तं यावदागतायाः
सुरसरितो भगीरथतपोनुरोधेन भारतेऽवतारः, न तु नन्तरवत्