This page has not been fully proofread.

७६
 
मेघसंदेशे
 
1
 
भास्वादाम्, इतिहासपुराणेषु कामपालस्य वारुणीरसास्वादव्यसन-
प्रसिद्धेः; तथा श्रीविष्णुपुराणे– 'अभीष्टा सर्वदा यस्य मदिरे त्वं
महौजसः । अनन्तस्योपभोगाय तस्यागच्छ मुदे शुभे ॥' इति ।
रेवतीलोचनाङ्कां ककुद्मिसुतया देव्या रेवत्या सदैव पीयमानत्वेन माण-
चषकवर्तिन्या मादरायाः प्रतिबिम्बिततन्नयनकुवलयलाञ्च्छितत्व-
मिति भावः ; यथा रघुवंशे– 'न च शशिप्रतिमाभरणं मधु' इति
सान्द्रचन्द्रिकाधवलेषु प्रदोषेषु चन्द्रशालिकावर्तिना सेव्यमानस्य
मणिभाजनभाजो मधुनः प्रतिमाचन्द्रगर्भत्वकथनम् । रसातिशय-
जनकत्वख्यापनाय च रेवतीवदनाङ्कत्वोक्तिः । विशिष्टायाश्च हालाया
दानाभिघानाद्देवीपरिभोर्गानवृत्तिरपि सूच्यते, तीर्थसेवायां संयतेरव-
श्यंभावात्, बन्धुजनविनाशशङ्कया दुःस्थत्वाच्च मनस इति । बन्धु-
प्रीत्या पाण्डवकौरवपक्षयोरुभयोरपि यौनसंबन्धितया साम्नोऽपि संधि-
त्सया प्रयुक्त्तस्य मोघत्वादेकतरपरिग्रहेऽन्यतरवैमनस्यमाशङ्कय, तद्-
तस्नेद्देन यत् भावि तत् भवत्विति द्वयमपि परित्यज्य, सुहृजननिधन-
निबन्धनात्संग्रामादेव निवृत्तो दुस्त्यजमपि विषयग्रामं निर्वेदान्निरस्ये-
त्यर्थः । अथवा बन्धुः अन्तेवासी दुर्योधनस्तद्गतेत पक्षपातेन, युधि
ष्ठिरपक्षे वासुदेवस्यावस्थानात् तत्पक्षे विजयस्यैकान्त्यात् सुयोधन-
निधनं निश्चित्य तदनुभवमसहमानः समरदर्शनमप्यनभिनन्दन्त्रि-
चेंदाद्विषयनिवृत्त इत्यर्थः । लाङ्गलीति । भगवान् रामस्त्रिभुवनम-
पिलाङ्गल्यग्रेण लीलया परिवर्तयितुं शक्नोतीति बन्धुप्रीतिपारवश्यमे
बात्र हेतुः, न त्वशक्त्या विरतिरिति द्योत्यते । लाङ्गलं सीरम् । अभिगमं
प्राप्तिम्, पानमित्यौचित्यात्सिध्यति । सौम्य शान्तचित्तेत्यामन्त्रणेन