This page has not been fully proofread.

प्रथमाश्वासः ।
 
७५
 
समेव युगपदनन्तधारतया संपातने कौशलम्, तथा तस्यापि दिव्या-
स्त्रज्ञानसंपन्नतयां कृतहस्ततया च अक्रममेवापरिमेवशरसंदोहवर्षण
इति॒ द्योत्यते । कमलानीति । विशिष्टानामेव मुखानामुपमेयतया क-
मलानामेवोपमानतयोपादानम् । अथवा योग्यतया कमलाकराणा-
मित्यायाति, राजान्यानामुपात्तत्वात् । कमलानीत्यनेन मुखानामपि
शरपतनेऽप्यचकितत्वम्, पूर्वच्छायाविच्छेदविरदश्च प्रकाश्यते । अ
भ्यवर्षत् आभिमुख्येनासिञ्चत् । वर्षणेन विचयनं लक्ष्यते । अनेन
धर्मविजयितया विमुखेषु बिशिस्वप्रयोगाभावः सूचितः । मुखानी-
ति, राजन्यानामप्यतिसाइसिकत्वेन निवातकवचदारुणानामपि स-
ब्यसाचिसायकानां सुरतरुकुसुमानामिव मुखैरेवासंभ्रमं प्रत्येषणं प्रका-
श्यते । मुखानीति बहुवचनेन, गाण्डीवधन्वन एकस्यैव केसरिण इव
वारणैररिवीरैरसंख्यैः संख्यसंक्षोभेऽपि लीलायित बुद्धिरासूत्र्यते । अ-
त्रोपमा उदात्तं चालंकारः ॥
 
हित्वा हालामभिमतरसां रेवतीलोचनामां
बन्धुमीत्या समरविमुखो लाङ्गली याः सिषेबे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीना-
मन्तः शुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः ॥
अथ पात्रीकुर्बन्नित्यत्र सुखवर्षणस्यापि ध्वनितत्वात्, अथवा
भजेथा इति सेवाया विधानात् तद्देशवर्षणस्यापि सेवाप्रकारतया
जलमोठे सिद्धे अस्य सलिलपानाय स्थलमुपदिशति — हित्वेति ।
हित्वा त्यक्त्वा । हालां मदिराम् । अभिमतरसां आत्मनोऽत्यन्तवल-