This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
७५
 
समेव युगपदनन्तधारतया संपातने कौशलम्, तथा तस्यापि दिव्या-

स्त्रज्ञानसंपन्नतयांया कृतहस्ततया च अक्रममेवापरिमेशरसंदोहवर्षण

ति॒ति द्योत्यते । कमलानीति । विशिष्टानामेव मुखानामुपमेयतया क-

मलानामेवोपमानतयोपादानम् । अथवा योग्यतया कमलाकराणा-

मित्यायाति, राजान्यानामुपात्तत्वात् । कमलानीत्यनेन मुखानामपि

शरपतनेऽप्यचकितत्वम्, पूर्वच्छायाविच्छेदविरश्च प्रकाश्यते । अ
-
भ्यवर्षत् आभिमुख्येनासिञ्चत् । वर्षणेन विचयनं लक्ष्यते । अनेन

धर्मविजयितया विमुखेषु बिविशिस्वप्रयोगाभावः सूचितः । मुखानी-

ति, राजन्यानामप्यतिसासिकत्वेन निवातकवचदारुणानामपि स-
ब्

व्
यसाचिसायकानां सुरतरुकुसुमानामिव मुखैरेवासंभ्रमं प्रत्येषणं प्रका-

श्यते । मुखानीति बहुवचनेन, गाण्डीवधन्वन एकस्यैव केसरिण इव

वारणैररिवीरैरसंख्यैः संख्यसंक्षोभेऽपि लीलायित बुद्धिरासूत्र्यते । अ-

त्रोपमा उदात्तं चालंकारः ॥
 

 
हित्वा हालामभिमतरसां रेवतीलोचनामां
ड़्कां
बन्धुमीप्रीत्या समरविमुखो लाङ्गली याः सिषेबे ।
वे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीना-

मन्तः शुद्धस्त्वमसि भविता वर्णमात्रेण कृष्णः ॥

 
अथ पात्रीकुर्न्नित्यत्र सुखवर्षणस्यापि ध्वनितत्वात्, अथवा

भजेथा इति सेवाया विधानात् तद्देशवर्षणस्यापि सेवाप्रकारतया

जलमोठेक्षे सिद्धे अस्य सलिलपानाय स्थलमुपदिशति-- हित्वेति ।

हित्वा त्यक्त्वा । हालां मदिराम् । अभिमतरसां आत्मनोऽत्यन्तवल्ल-