This page has not been fully proofread.

७४
 
मेघसंदेशे
 
-9
 
'स क्षत्नं नाम वर्णः' इत्यादिभिः क्षत्रशब्दस्य द्वितीयवर्णवाचकत्वाव-
गमान्न केवलं क्षत्रवर्णकूटस्थानाम् अपि त्वाकुमारस्थविरं क्षत्रवर्णस्यैव
प्रथनं युद्धम् अत्र निर्वृत्तमिति सूचकम् ; निशितविशिखनिवद्दमुखच्च-
कलितकरितुरगरथपदातिपरिषदवयवशिखरिकूटसंकटतया पतितविक-
टमणिमकुटकटककङ्कटकङ्कणहारसारसनशिरस्त्रातपत्रशस्त्रचामरादि-
मिश्च लिङ्गैरुन्नेयधन्यराजन्यजन्याद्भुतमित्यर्थः । प्रधनपिशुनम्, न तु
निधनपिशुनमित्यनेन दिव्यमानुपविविधव्यूह निर्माण निपुणदुर्मदनरेन्द्र-
धर्मयुद्धवैचित्र्यज्ञापकत्वं ध्वन्यते । कौरवं कुरुजनपदान्तः पाति ।
अथ वा कुरुवंशनरेन्द्राणां स्वभूतं तदिति भुवनचरमाणरससुधाभ-
रितभारतप्रसिद्धमित्यर्थः । भजेथाः सेवेथाः, भक्तिश्रद्धापुरःसरं तत्र.
दिवसं वसेरित्थर्थः । राजन्यानां मूर्धाभिषिक्तानां क्षत्रियाणाम् । अ-
नेन कुलपुत्रतया परिपालनाधिकृतत्वाच्च भुजवलमत्तानां तेषां स्वयम-
भियोगो ध्वन्यते। शितानां शाणोत्तेजितानाम तिस्त्रच्छानां शराणां शतैः
शतशब्दोऽनेकवाची असंख्यैः शरैरित्यर्थः । उपमानबलायुगपन्मुक्ते-
रिति द्योत्य॒ते । गाण्डीवधन्वा गाण्डीवं नाम धनुर्यस्य स इत्यनेनैव वि
शेषणेन गाण्डीवहस्तस्य लक्ष्मीवल्लभसुहृदो विजयस्य प्रतीतेरीदृश्या-
श्रोकेश्चमत्कारकारित्वाद्विशेष्यस्य पृथगनुपादानम्; तदुपादानं तु
निरर्थकत्वाद्दोष एव; यथाइ वामनः- 'विशेषणमात्रप्रयोगो विशे-
ध्यप्रतिपत्तौ ' इति । गाण्डीवधन्वेत्यनेन साधनान्तरनैरपेक्ष्यं ध्वन्वते;
गाण्डीवकुण्डलीकरणपण्डितो यस्य भुजदण्डः, तस्य किं दुष्करमिति
च । धारापातैः पतन्तीभिर्जलधाराभिः । अनेन शराणामक्षयत्वम्,
उपर्युपरि प्रसरणादनुबन्धश्च व्यज्यते । त्वमिवेति । यथा तव निराया-
-