This page has not been fully proofread.

७३
 
1
 
पात्रीकुर्वन् नं तु पात्रीभवन्, भाजनं वितन्वन् । अनेन स्वमति-
पूर्वमेव प्रतिक्षणं विविधरूपचेष्टापरिग्रहलीलया कौतुकमवश्यमुत्पाद
नीयमिति द्योत्यते; तेन च सुखस्पर्शसलिल बिन्दुप्रबन्धेन च तासा-
माह्लादनादभिमुखीकरणमनुष्ठेयमिति ध्वन्यते । दशपुरं नाम नगरी-
विशेषः । तत्रत्यानां युवतीनां यानि नेत्राणि, तान्येव कुतूहलकब-
लितत्वात् कौतूहलानीत्युच्यन्ते; अथवा लोकलोचनकुतूहलास्पदत्वात्
कौतूहलत्वेनाभ्यवस्यन्ते । अथवा मेघदर्शनौत्सुक्यकुतूहलितया कुत्
द्दलविशिष्टानि नेत्राणि धर्मित्वाल्लक्ष्यन्ते । बहुवचनेनानेकनेत्रगत-
त्वात् कौतूहलस्याप्यनेकत्वमुक्तम् । अथवा कौतुककार्यभूतविलोकन-
प्रकारबाहुल्यं सूच्यते । अत्रोत्प्रेक्षालंकारः, निदर्शना वा ॥ ४७ ॥
ब्रह्मावर्ते जनपदमधश्छायया गाहमानः
 
प्रथमाश्वासः ।
 
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेयाः ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥
 
अथ दशपुरमुल्लङ्घितवतो धर्मक्षेत्रं कुरुक्षेत्रमवश्यमुपगन्तव्यमि-
त्याइ – ब्रह्मावर्तमिति । 'सरस्वतीदृषद्वत्योर्देवनग्रोर्यदन्तरम् । त-
देव निर्मितं देशं ब्रह्मावते प्रचक्षते ' इति मनुः । अधः अघस्तात् ।
च्छायया अनातपरूपेण प्रतिबिम्बेन । गाहमानः प्रविशन्; उपरि
गछतस्तव तपनकिरणनिरोधाच्छायया प्रवेशोऽपरिहर्तव्य इति भावः ।
तस्य पुण्यभूमित्वात्तयवेशेऽप्यगण्यपुण्यलाभ इति च द्योत्यते । क्षेत्वं
पवित्रं देशम् । क्षत्रप्रधर्नापिशुनं 'अद्भयोऽग्निर्ब्रह्मत: क्षत्रम्' इति,