2023-02-17 12:54:38 by ambuda-bot
This page has not been fully proofread.
७२
मेघसंदेशे
अथ तामतीतस्य पथि निरुपमरसानुभूतिर्भाविनीत्याइ-ता-
मिति । तां चर्मण्वतीम् । परिचितः शिक्षितो भ्रूलतानां विलासो
यैः । अनेन 'भ्रूविलासानभिशैः' इत्युक्तजनपदबधूस्वभाववैपरीत्यं
नागरीषु प्रकाश्यते। पक्ष्मोत्क्षेपात् गगनशृङ्गरिङ्गणपरस्यास्य दर्श-
नोत्सुक्यादुत्वानीकृततया चक्षुषां तत्पुटरोमरेखयोरप्युन्नमनात् । उ
परि ऊर्ध्वभाये । विलसत्कृष्णशारप्रभाणां विशेषेण निष्प्रत्यूहं प्रस-
रन्ती कृष्णेन कनीनिकानीलिम्ना शारा शबलिता पारिशेष्यात् सित-
भागस्य प्रमा किरणमञ्जरी येषाम् । कृष्णादयः शब्दा गुणं गुणिन-
मपिं प्रतिपादयन्ति, 'स्वच्छस्वच्छायायासितेन्दवः' 'फुल्लमल्लिका-
धवलाट्टहास:' इत्यत्र स्वच्छधवलवत् । 'सारङ्गः शबलो वर्णश्चातकः
षट्पदो मृगः । शबले मारुते शारः' इति वैजयन्त्यां शारसारङ्गश-
बलानां पर्य्यायत्वावगतेः, सितनीलसंकलनस्य सारङ्गवर्णतया, 'सित-
नीलसमायोगात्सारङ्ग इति संज्ञितः ' इति दिवाकरेण प्रतिपादनाच,
अत्र शारशब्देन कृष्णधवलयोरेव मिश्रत्वमुक्तं वेदितव्यम्; तावत
एवोत्प्रेक्षा— कुन्दक्षेपानुगमधुकरश्रीमुषामिति । ऊर्ध्वप्रसारितं कुन्द-
कुसुमं कुन्दक्षेपः; 'पुरुषविशेषो विशिष्टपुरुष ईश्वरः' इतिवत्
'अभिनवकरिदन्तच्छेदकान्तिः कपोल: ' इतिवच्च क्षेपक्रिया साम-
द्रव्यं क्षयति । सितकरणानामूर्ध्व क्षिप्तानां कुन्दपुष्पाणाम्
अनुगा अनुसारिणो ये स्वभावनीला लोलम्बास्तेषां शोभामपहर-
ताम् । मधुकरशब्देन कुन्दकुसुमानां मकरन्दबहुलतया भ्रमराणां च
मधुसंग्रहलोमाद विश्रममव्यवधानेनानुगमनौचित्यं द्योत्यते । आत्म-
बिम्बं स्वशरीरमण्डलम्; 'दरीगृहद्वारि विलम्बिबिम्बाः" इतिवत् ।
-