This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
६९
 
मार्गो येन । सिद्धद्वंद्वैः सिद्धमिथुनैः । वीणिभिः विपञ्चीसहितैः । ब्व्रीह्या-

दित्वादिनिः। 'व्रीहिः शिखाष्टका माला पताका कर्मवर्मणी । मेखला

डवा वीणा संज्ञा च्छद्मबलाकयोः' इति व्रीह्यादिगणः । जलेति । प्रथ-

मजलकणानां सुखसेव्यत्वेऽपि तन्त्रीणामाद्रींर्द्रीभावशङ्कितैरिति भावः ।

सुक्तमार्गः परिहृतागमनसरणिः । व्यालम्बेथाः गगनतलादवतरेः।

सुरभितनयालम्भजां सुरभिर्नाम गोकुलमाता दिव्यधेनुः, 'मध्थ्यमाने

ततस्तस्मिन्क्षीराब्धौ देवदानवैः । हविर्धामाभवत्पूर्वं सुरभिः सुर-

पूजिता' इति श्रीविष्णुपुराणोक्तेः ; तत्पुत्रीणां गवामालम्भो यज्ञे

वधः, तेन जाताम्। मानयिष्यन् पूजयिष्यन् । अनेन जलपानतृष्णा-

भावेऽपि धार्मिकस्य राजर्षेः सत्कारार्थमपि तत्रावतरणीयमिति द्यो-

त्यते, 'धर्मः श्रुतो वा दृष्टो वा स्मृतो वा कथितोऽपि वा । अनुमो-

दितो वा राजेन्द्र पुनाति पुरुषं सदा ॥' इति महाभारतोक्तेः ।

स्रोतोमूर्त्या जलप्रवाहरूपेण । भुवीति, यावत् भूमौ स्वयं परिवर्तते,

तावत् स्वर्गवासहेतुत्वं द्योत्यते; 'यावत्कीर्तिर्मनुष्यस्य भूमौ भवति

भारत । तावत्स पुरुषष्याघ्रः स्वर्गलोके महीयते' इति स्मृतेः। परि-

णतां संभूताम् । रन्तिदेवस्य रन्तिदेवनाम्न आदिराजस्य । कीर्ति
तिं
सजनश्लाघनीयं यशःशरीरम् । अत्र महाभारतप्रसिद्धा कापि कथा-

नुस्मर्यते ; यथा— 'आसीत्पुरा नरपतिः किल रन्तिदेवः कीर्तिप्र-

सूनसुरभीकृतदिङ्मुखश्रीः । यो वर्णसंकरवतीमपि रत्नपुलैःञ्जैः क्षोणी-

मपालयदसंकरवर्णहृद्याम् ॥ राष्ट्रे च तस्य रमणीयगुणाम्बुराशेर्गावः

कदाचिदटवीं गहनां प्रविष्टाः । दृष्टाट्वा श्रिया परमया ज्वलिता
चुधेनूः

<flag>द्यु</flag>
पप्रच्छुरच्छकनकच्छविमङ्गलाङ्गीः ॥ सख्यः कथं नु भव-