2023-02-17 12:54:37 by ambuda-bot
This page has not been fully proofread.
६८.
मेघसंदेशे
पात इति भावः । कुवलयदलक्षेपि विकसितारुणदलकेसरपरिवेष-
भासुरविकसितेन्दीवरानुकारि, अथवा स्वधारणदशायां पूर्वावस्थिता-
बतंसकुबलयनिरासि । कर्णे श्रवणशिखरे । करोति निदधाति ।
धौतापाङ्गं वाल्लभ्यातिरेकादत्यन्तसविधसंचारिणः स्वतो धवलमपाङ्गं
मृगाङ्ककिरणवारिघाराभिर्धावल्योद्दीपनात् क्षालितं यस्य । पावकेः
हुतवहसुतस्य, तन्मुखसंभृतत्वात् । पश्चात् पुष्पाभिषेकानन्तरम् ।
अद्रिग्रहणगुरुभिः देवगिरिगुहाप्रबेशप्रभूतप्रतिध्वनिचहलैः । नर्तयेथाः
त्वद्गर्जितधवणे प्रहर्षपरवशस्य तस्य नृत्तमवश्यंभावि, तदानीं तत्प्र-
योजकत्वान्नृत्ताचार्यत्वं तव भवतीत्यर्थः । अत्रोदात्तमलंकारः॥४४॥
आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
ब्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य-
न्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
अथ मयूरकेतनाभिषेकविनियुक्ततोयस्यास्य तदादानस्थलमुपदि-
शति — आराध्यैनमिति । एनं प्रस्तुतम् । एवमिति वा पाठः ।
उक्तप्रकारेण पूजयित्वा । शरवणभवं मेरुमेखलावस्थितकनकमयका-
शकाननप्रदेशे प्रसूतत्वात् । देवं दीव्यत्यर्थसामम्यस्य परमेश्वर एक
संभवात् स एव देव इत्युच्यते; शिवमेव शरवणसंभूतं षडाननतया
परिणतम्, 'आत्मा वै' इति श्रुतेः, 'जायां पतिः संप्रविश्य सर्वेः
संजायते पुनः' इति स्मृतेश्च । ततश्च कृतकृत्योऽसीति ध्वन्यते। उल्ल-
द्वितावा तीर्णः अर्थाद्देवगिरेश्चर्मण्वत्याख्याया नद्याश्चान्तरालवर्ती