This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
६७
 
रक्ष्याः संवृत्ता इति प्रकाश्यते । अत्यादित्यम् आदित्या: द्वादश, धात्र-

र्यमादीन् तानतिक्रान्तम्, अतिदुष्करे कर्मण्यनायासेन साधकत्वात् ।

हुतवहमुखे देव्यादिभिर्धारणाक्षमतया विमुक्तत्वादग्निनैव धारणात्त

एव च रूपसामध्ग्र्यसंपत्तेः । संभृतं संभावितमिति, पितुर्देवस्य बुद्धि-

पूर्वकमपि सकलशक्तिसमर्पणं द्योत्यते । हिशब्दः प्रसिद्धौ। तेजः न

तु तेजस्वी । अनेन तेजोघनत्वं ध्वन्यते । बाह्यान्तरध्वान्तविध्वंसनक्ष-

मत्वाच्च तेज इत्युच्यते । अत्र गङ्गाजलतरुकुसुमाभिषेकप्रयासे मम

किं फलमिति कार्ये पृष्टे सकलसमीहितसाधकत्वशक्तेः कारणस्याभि-

धानादप्रस्तुतप्रशंसालंकारः ॥ ४३ ॥
 

 
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी

पुत्रमेप्रेम्णा कुवलयदलक्षेपि कर्णे करोति ।

धौतापानंड़्गं हरशशिरुचा पावकेस्तं मयूरं

पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४ ॥
 

 
अथ भगवतः स्कन्दस्य प्रसादनं बन्धुकार्ये चैतेन कर्मणा संपाद्य-

मित्या—ज्योतिर्लेखेति । वर्तुलाकारतेजोरेखा विशिष्टमिति मनोहर-

त्वातिशय उक्तः । गलितं न तु खण्डितम्, स्वयमेव कालतो भ्रष्टम् ।

अनेन तद्विषये सदयत्वं ध्वन्यते; 'नादत्ते प्रियमण्डनापि भवतां

स्नेहेन या पल्लवम्' इतिवत् । बर्हं भवानीति । इयं परमेश्वर-

प्राणेश्वरी, तत्तु नेचरनितावतंसोचितमतिक्षुल्लमित्यर्थः । पुत्र-

प्रेम्णा स्वनन्दनस्य तस्मिन्मयूरे पक्षपातदर्शनात्, स्वपुत्रविषयेण
बा

वा
त्सल्येन वा; इयं खलु स्नेहस्य शैली, यत्तत्परिग्रहेऽपि तद्वत्पक्ष-