This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
रिदुदकस्नपनेन भगवतः प्रसादातिशयलाभः, ततः प्रकृष्टप्रयोजन-

प्राप्तिरिति द्योतितम्, 'अभिषेकप्रियः शिवः । अलंकाराप्रेरप्रियो हरिः '
'
इति पुराणवचनात् । रक्षाहेतोः प्रबलतरतारकाद्यसुरवीरदारणनि-

मित्तम् । 'षष्ठी हेतुप्रयोगे' इतीयं षष्ठी । नवशशिभृता तरुणचन्द्र-

शेखरेणेति, अनन्यसाधारणेन विशेषणेनाणिमादिसर्वैश्वर्यनिकेतनस्य

परमेश्वरस्य प्रतिपादनात् 'अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।

शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं विबिभर्ति यः ॥ इत्यणिमादीनामस्पृष्ट-

पुरुषान्तरत्वेन साहचर्याव्यभिचारस्योक्तःतेः, तत्संभृतस्य तेजसोऽपि

'कारणगुणप्रक्रमेण कार्यगुणारम्भः' इति न्यायात्तदीयगुणसर्वस्वसं-

पत्तिः प्रतिपाद्यते । अथवा नवशशिभृतेति, 'नवो नवो भवसि'

इति मन्त्रात्प्रतिमासं नव्यस्य चन्द्रस्य योगशक्त्या शिवेन धारणा-

त्तस्य च बहुवनजनपरिपोषकत्वाद्योगीश्वरस्य शंभोः सर्वदा जगदुप-

कारैकशरणत्वं भ्ध्वन्यते; 'सोमाधारः पितृगणो योगाचारश्च चन्द्रमाः ।
भा

श्रा
द्धे योगिनि योगस्तु · तस्माद्भूपाल शस्यते' इति श्रीवचनात् ।

अथवा सुरासुरनिकरघस्मरजलधिविस्सृमरगरलकबलनेन तदूष्मशा-

न्तये शिवस्य सुधाकरशकलधारणात्तदनुस्मरणेंणेन जगदेकशरण-

ता करुणानिधेद्यर्द्योत्यते । स च संभरणहेतुः । वासवीनां वासवः

इन्द्रः, तत्संबन्धिनीनाम्, वसवो देवाः तदीयानां वा । एतेन दानव-

कदनदूनदीनवासवादिप्रार्थनाप्रसन्नत्वं परमेश्वरस्योक्तम् ; यथा कुमार-

संभवे-- 'अरिविप्रकृतैर्देवैः प्रसूतिं प्रतियाचितः' इति । चमूनां सेना-

नामिति बहुवचनेन बाहुविध्यं द्योत्यते । सेनाग्रहणेन सेनानां राज
स्-
सार्थत्वेन तासां च तारकादिष्वकिंचित्करतया प्रत्युत अत एव
 
६६