This page has not been fully proofread.

प्रथमाश्वासः ।
 
रण्यानामारण्यकानां जीवातुहेतुरिति ध्वन्यते । अत्र कस्मिंश्चित्सुहृदि
नरपतौ संनिकृष्टदेशवर्तिनि प्रहृष्टेन केनचिद्राज्ञा तदानयनाय प्रहितस्य
सुगन्धानुलिप्तस्य सुभगमण्डलगृह्यमाणगुणगणस्य सज्जनोपकारिणः
कुमारादेः समाधिरनुसंधेयः । स्वभावोक्तिरलंकारः ॥ ४२ ॥
तत्व स्कन्दं नियतवसतिं पुष्पमेधीकृतात्मा
पुष्पैः साधु स्नपयतु भवान्व्योमगङ्गाजलार्यैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥४३॥
 
अथ परमप्रयोजनप्रधावकं कमपि विधिमनुष्ठेयमुपदिशति-
तत्रेति । तत्र पूर्वप्रस्तुते देवगिरौ । 'पार्वतीनन्दनः स्कन्दः सेनानी-
रग्नि॒िभूर्गुहःः इत्यमरः । नियता निश्चिता वसतिर्वासो यस्य तम् ।
अनेन दर्शनाव्यभिचार उक्तः । पुष्पमेघीकृतात्मा पुष्पवर्षी यो मेषः,
तत्त्वेन निपुणितं शरीरं येन । अनेन जलवर्षणोचितरूपवत् पुष्प-

वर्षणे अद्भुतरूपान्तरपरिग्रह उक्तः; तथा रघुवंशे– 'गन्धोदग्रं तदनु
बवृषुः पुष्पमाश्चर्यमेघाः' इति । साधु भक्तिपूर्वम् । व्योमगङ्गाज-
लार्द्रेः मन्दाकिनीजलसंदोहसंमिश्रिततया सरसैः । ब्योमगङ्गेत्युक्तेः
कल्पतरूत्पन्नत्वं पुष्पाणां गम्यते । अत्र पुष्पाणां प्राधान्यप्रतीतावपि
सामर्थ्यात् गगनगङ्गाजलस्यैव तव्यकराधिवासितस्य प्राधान्यं वेदि-
तव्यम् 'सा सपुष्पजलवर्षिभिर्धनैः' इत्यत्रेव; अन्यथा अवकिरण-
मात्रमेव वक्तव्यम्, 'अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैः '
इत्यत्रेव । ततश्च सुरभितरसुरतरुकुसुमसहचरितशुचिशिशिरगगनस-
M3