This page has been fully proofread once and needs a second look.

६४
 
मेघसंदेशे
 
अथ मार्गस्थितो देवगिरिस्त्वयोपगन्तव्यः; तदभियायिनश्च तवा-

ध्वश्रमोऽनायासमेव गमिष्यतीत्या- त्वह- त्वन्निष्यन्देत्यादि । त्वत्कृत-

नवजलावसेकशिथिलितावयववसुंधरागन्धसंसर्गसुन्दरः। स्रोतोरन्ध्र-

ध्वनितसुभगं अम्बुनिर्गमद्वारकलकलवन्मनोहरनिनदश्राव्यम्, शुण्डा-

काण्डकुरकुहूकारकोलालत्वात् । 'स्रोतोऽम्बुनिर्गमद्वार इन्द्रियेऽ-

प्सु जलनुस्रुतौ' इति वैजयन्ती । दन्तिभिरिति, निशितविषाणकोटि-

पाटितप्रतिकरटितरुविटपगिरितटादित्वेन सुलभश्रमत्वं ध्वन्यते । अ-

थवा गजानामेव दन्तवत्वात्तेषामेव मदयोगाच्च मददोषसंतप्तैरिति

ध्वन्यते; तादृशामेव शीतमारुतास्वादतृष्णौचित्यात् । पीयमानः पु-
घ्

ष्
करैरास्वाद्यमानः, मुखैरेव वा सुरभिनवजलमनीषया; तथा श्रीरामा-

यणे-- 'मेघोदरविनिर्मुक्ताः कल्हारसुखशीतलाः । शक्यमञ्जलिभिः

पातुं वाताः केतकगन्धिनः ॥' इति । हर्षचरिते च -- 'पवनमपि

पातुमभूदभिलाषो दिवसकरसंतापात्' इति । नीचैः मन्दम् । वास्यति

वीजिष्यते । उपजिगमिषोः समीपे गन्तुमिच्छोः । अनेन देवगिरेः

सामीप्यात्तदीयो वायुरिति सिध्यति । देवपूर्वं गिरिमिति । 'दशपू-

र्वरथं यमाख्यया' 'हिरण्यपूर्वे कशिपुं प्रचक्षते' इत्यादिवद्देवपूर्वगि-

रिशब्दामिधानं पर्वतमिति झटिति प्रतीतेः शब्दपरत्वार्थपरत्वादिवि-

कल्पस्यानवकाशः, शाब्दे व्यवहारे निर्व्यभिचारार्थप्रतीतेरेव प्रयोज-

कत्वात्; लक्षणेऽप्यप्रयुक्तस्याप्रयोज्यतया लक्षणतो महाकविप्रयोगस्य

प्राबल्याच्च । शीतः त्वन्निष्यन्देत्यनेनैव शैत्यहेतोः प्रसङ्गात् । परिणाम-
णम-
यिता परिणामजनकः । काननोदुम्बराणां वनगतयशाज्ञाङ्गतरुफलानाम् ।

' कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी। अनेन परिणतोदुम्बरफलश-