This page has not been fully proofread.

प्रथमाश्वासः ।
 
कालविशेषणम् । हृत्वा लम्बमानस्येत्यन्वयः । लम्बमानस्य जलभ-
रगौरवादवनमतः, रसमग्नतया कालं क्षिपतश्च । प्रस्थानं तत्समीपात्
प्रयाणम् । कथमपि भवतीत्युक्तिद्वारेण प्रयत्नतोऽपि कर्तव्यमित्यु-
क्तम्। सखे इति, प्रियवयस्येन त्वया न विस्मर्तव्या मद्दशेति
द्योतयति । वसनद्दरणे बिलम्बोऽवश्यंभावीति कथं निश्चीयत इति
चेत्तत्राह – शातास्वाद इति । विदितभोगरसः । विवृतजघनां
प्रकटितविकटकटितटपुरोभागाम् । 'पश्चानितम्बः स्त्रीकट्याः क्लीने
तु जघनं पुरः' इत्यमरः । विवृतेति, स्वानुकूल्यंद्योतयति 'आनुकू-
ल्यरसाः स्त्रियः' इत्युक्तत्वात् ; सा हि रसस्य परा काष्ठेति भावः ।
जघनेति, दयितायाः कण्ठमूलकक्षवक्षोरुहादीनामपि हृदयगन्धसि-
मदनसार्वभौमगर्वसर्वस्वखनिपर्वते जघनपुं-
-
 
न्धुरबन्धनालानत्वात्,
 
लिने प्रकाशिते किं पुनरिति मावः । क इति क्षेपे; शान्तनवोऽपि
न शक्त इत्यर्थः । विहातुमिति, आस्तां दवीयस्यस्य सेवनम्;
तसेवनानन्तरमपि परित्यागो न सुकर इति व्यज्यते । अत्रोत्प्रेक्षारूप-
कसमासोक्त्यर्थान्तरन्यासा: संकीर्णाः । अर्थान्तरन्यास एवोगा-
ब्यते । एवमन्यत्रापि बहूनां संकरसंसर्गे प्रधानस्यैकस्यैव निर्देशः
क्रियते, ग्रन्थविस्तरभयादशक्यत्वाच्च ॥ ४१ ॥
 

 
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वे गिरिं ते
 
शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥