This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 

 
कालविशेषणम् । हृत्वा लम्बमानस्येत्यन्वयः । लम्बमानस्य जलभ-

रगौरवादवनमतः, रसमग्नतया कालं क्षिपतश्च । प्रस्थानं तत्समीपात्

प्रयाणम् । कथमपि भवतीत्युक्तिद्वारेण प्रयत्नतोऽपि कर्तव्यमित्यु-

क्तम्। सखे इति, प्रियवयस्येन त्वया न विस्मर्तव्या मद्दशेति

द्योतयति । वसनद्दरणे बिविलम्बोऽवश्यंभावीति कथं निश्चीयत इति

चेत्तत्राह – शाज्ञातास्वाद इति । विदितभोगरसः । विवृतजघनां

प्रकटितविकटकटितटपुरोभागाम् । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीने
बे
तु जघनं पुरः' इत्यमरः । विवृतेति, स्वानुकूल्यं द्योतयति 'आनुकू-

ल्यरसाः स्त्रियः' इत्युक्तत्वात् ; सा हि रसस्य परा काष्ठेति भावः ।

जघनेति, दयितायाः कण्ठमूलकक्षवक्षोरुहादीनामपि हृदयगन्धसि-

न्धुरबन्धनालानत्वात्,
मदनसार्वभौमगर्वसर्वस्वखनिपर्वते जघनपुं-
-
 
न्धुरबन्धनालानत्वात्,
 

लिने प्रकाशिते किं पुनरिति माभावः । क इति क्षेपे; शान्तनवोऽपि

न शक्त इत्यर्थः । विहातुमिति, आस्तां दवीयस्यस्य सेवनम्;

सेवनानन्तरमपि परित्यागो न सुकर इति व्यज्यते । अत्रोत्प्रेक्षारूप-

कसमासोक्त्यर्थान्तरन्यासा: संकीर्णाः । अर्थान्तरन्यास एवोगाद्भा-

ब्यते । एवमन्यत्रापि बहूनां संकरसंसर्गे प्रधानस्यैकस्यैव निर्देशः

क्रियते, ग्रन्थविस्तरभयादशक्यत्वाच्च ॥ ४१ ॥
 

 

 
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः

स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।

नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वेवं गिरिं ते
 

शीतो वातः परिणमयिता काननोदुम्बराणाम् ॥