This page has not been fully proofread.

मेघसंदेशे
 
बीतकनीनिकानीलिमत्वं द्योत्यते ; हर्षचरिते– 'अस्नपयदिव धव-
लितदशदिशा दृशा' इति । त्वं नाईसि, तद्योग्योऽन्य एव नीरसजन
इत्यर्थः । धैर्यात् तद्विषयार्द्रताविरहादित्यर्थः । मोधीकर्तु निष्फलानि
कर्तुम् ; प्रणयपिशुनानां प्रमदाविलोकनानां प्रियप्रावण्यफलत्वात्
तदनभिनन्दनेन त्वयि व्रजति सति नितरां तव नीरसत्वं भविष्य-
तीति भावः। चटुलशफरोद्वर्तनप्रेक्षितानि चञ्चलानि शफराख्यम-
त्स्यविशेषपरिस्फुरणरूपाणि विलोकनानि । चटुलत्वं ड्रीयन्त्रणया
स्थिरत्वाभावः, मत्स्यस्फुरणस्वभावश्च । शेफरग्रहणं तेषां नयनसाम्य-
प्रसिद्धेः । प्रेक्षितानीति, प्रकृष्टरसवर्षित्वं प्रोपसर्गेण, विविधभाव-
विकसितविलासभङ्गितरङ्गितत्वाद्वाहुविध्यं च बहुवचनेन द्योत्यते ।
अत्र समासोक्तिरलंकारः ॥ ४० ॥
 
६२
 
तस्याः किंचित्करघृतमिव प्राप्तवानीराखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो वितृतजघनां को विहातुं समर्थः ॥
अब तदुपभोगरससङ्गेनास्य गमनविलम्बमाशङ्कय भङ्गया निषे-
धति— तस्या इति । किंचिदिति धारणक्रियाविशेषणं करेणेषन्नि-
चारितमिवेति । मदनसुहृदो मनसः संवादेऽपि त्रपापरवशतया
करेण शिथिलधृतमिव । प्राप्तवानीरशाखं स्पृष्टवेतसविटपम् । हृत्वा
आदाय, आक्षिप्य च मुक्तरोधोनितम्बम् अनेन सलिलस्यापीयमा-
नत्वे वीयमाणत्वाद्वर्जितं तीररूपं श्रोणिमण्डलं येन । एतच हरण-