2023-02-17 12:54:36 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः ।
६१
तया वराक्येति प्रलपन्, प्रभूतविद्वेषभाजनं भवति ; तथा त्वमपि
नीरसकोटौ निपतन् भविष्यसि; तत्तथा न कर्तव्यमिति भावः ।
अत्र समासोक्तिरलंकारः ॥ ३९ ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुद विशदान्यर्हसि त्वं न धैर्या-
"
न्मोघीकर्ते चटुलशफरोद्वर्तनपेक्षितानि ॥ ४० ॥
अथास्य 'प्राप्य वर्षाप्रबिन्दून्' इत्यादिना वर्षणस्य प्रस्तावात्
सलिलरिक्तस्य तदास्वादभूमिं वैदग्ध्यात्प्रकाशयति गम्भीराया
इति । गम्भीरेति नद्याः संज्ञा । प्रसन्ने पङ्कादिरहिते, विषयान्तर-
विक्षेपविक्षोभविरहसुस्थिते च । च्छाया प्रतिबिम्बरूपेण शरीरम्; उपार
गच्छत स्तव स्वच्छत्वात्सलिले आत्मापि बिम्बरूपं च । तस्मिन्नवलम्ब-
नेन प्रवेशं प्राप्स्यति, कान्तिः, तदाश्रयं शरीरं चेतसीवेत्यर्थः;
नयनप्रीतिपूर्वमेव चित्तासङ्गस्योपपत्तेः। 'छायात्वनातपे कान्तौ प्र-
तिबिम्बार्कजाययोः' इति वैजयन्ती । अथवा छायात्मा प्रतिबिम्ब-
शरीरम् । 'आत्मा जीवे धृतौ देहे ' इति वैजयन्ती । अपिर्भिन्नक्रमो
गम्भीराया अपीति निर्विन्ध्यादिभिः समुच्चयार्थः । प्रकृतिसुभगः
स्वभावेनैव कृत्रिमवेषमन्तरेण सुन्दरः स्निग्धमुग्धश्यामललावण्य-
दिग्धवियदन्तरालत्वादिति भावः । तस्मात् यस्मात् भवन्तं हृदये-
नोद्वहन्ती प्रकृष्टप्रेमप्रवणा वर्तते, तस्मात्कारणात् । कुमुदविशदानि
विकसितकुमुदभवलानि । अनेन हर्षविकसितनयनखितभागप्रभापरि-
।
-