This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
६१
 
तया वराक्येति प्रलपन्, प्रभूतविद्वेषभाजनं भवति ; तथा त्वमपि

नीरसकोटौ निपतन् भविष्यसि; तत्तथा न कर्तव्यमिति भावः ।

अत्र समासोक्तिरलंकारः ॥ ३९ ॥
 

 
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।

तस्मादस्याः कुमुद विशदान्यर्हसि त्वं न धैर्या-
"
 

न्मोघीकर्तेतुं चटुलशफरोद्वर्तनपेप्रेक्षितानि ॥ ४० ॥

 
अथास्य 'प्राप्य वर्षाप्ग्रबिन्दून्' इत्यादिना वर्षणस्य प्रस्तावात्

सलिलरिक्तस्य तदास्वादभूमिं वैदग्ध्यात्प्रकाशयति-- गम्भीराया

इति । गम्भीरेति नद्याः संज्ञा । प्रसन्ने पङ्कादिरहिते, विषयान्तर-

विक्षेपविक्षोभविरहसुस्थिते च । च्छाया प्रतिबिम्बरूपेण शरीरम्; उपार
परि
गच्छत्स्तव स्वच्छत्वात्सलिले आत्मापि बिम्बरूपं च । तस्मिन्नवलम्ब-

नेन प्रवेशं प्राप्स्यति, कान्तिः, तदाश्रयं शरीरं चेतसीवेत्यर्थः ;

नयनप्रीतिपूर्वमेव चित्तासङ्गस्योपपत्तेः। 'छायात्वनातपे कान्तौ प्र-

तिबिम्बार्कजाययोः' इति वैजयन्ती । अथवा छायात्मा प्रतिबिम्ब-

शरीरम् । 'आत्मा जीवे धृतौ देहे ' इति वैजयन्ती । अपिर्भिन्नक्रमो

गम्भीराया अपीति निर्विन्ध्यादिभिः समुच्चयार्थः । प्रकृतिसुभगः

स्वभावेनैव कृत्रिमवेषमन्तरेण सुन्दरः, स्निग्धमुग्धश्यामललावण्य-

दिग्धवियदन्तरालत्वादिति भावः । तस्मात् यस्मात् भवन्तं हृदये-

नोद्वहन्ती प्रकृष्टप्रेमप्रवणा वर्तते, तस्मात्कारणात् । कुमुदविशदानि

विकसितकुमुदवलानि । अनेन हर्षविकसितनयनखिसितभागप्रभापरि-

 
-