This page has not been fully proofread.

मेघसंदेशे /
 

 
न्यासङ्गविषये खण्डितेर्ष्याकषायिता' इत्यमरः । शान्ति नेयं प्रणि
पातादिप्रसादनोपायप्रयोगेणावेगापनयान्निवारणीयम् । प्रणयिभिरिति,
प्रसादनसौकर्ये द्योतयति प्रणिपातादिकमन्तरेणापि तदर्शनमात्रा-
न्मन्मथपरतन्त्रतया प्रसादो लभ्यत इत्यर्थः । प्रणयिभिरिति, तद्गत-
प्रेमनिगळयन्त्रितत्वात् प्रमादापतितत्वमपराधस्य; अंतो नेयमिति
प्रसादस्य प्रयत्नतोऽप्यनुष्ठेयत्वम् । अतः अस्मात्कारणात् । वर्त्म
किरणप्रसरणसरणिम्, कररुधीति किरण निवारणस्यैव वक्ष्यमाणत्वात् ।
आशु त्यत्न झटित्यपसरणेन वर्जय, सर्वथा वर्जनस्य गगनतले तपन-
मण्डलमघोऽधो वर्तमानस्याशक्यत्वात् ; अज्ञातकिरणघटनविघटन-
मपसरणीयमिति भावः । प्रालेयास्रं रजनिसम्यनिपतिततुहिनकणनि-
बद्दमयनयनजलम् । 'तुषारस्तुद्दिनं हिमम् । प्रालेयं मिहिका च'
इत्यमरः । अस्रुश्चासश्च पुलिंङ्गो केशेऽच रुधिरेऽश्रुणि' इति वैज-
यन्ती । कमलवदनात् पद्मरूपान्मुखात् । सोऽपि भानुरपि, यथा-
न्ये प्रणयिनः प्रणयिनीनाम् तथा सूर्योऽपीत्यपिः समुच्चये ।
अपि संभावनाप्रश्नगर्दाशङ्कासमुच्चये' इति वैजयन्ती । हर्तु करप्र-
मार्जनेनापनेतुम् । प्रत्यावृत्तः रात्रिनिवासस्थानादागतः । कररुधि
किरणच्छादके, न तु करस्पृशि, मन्दगमनेन चिरं किरणप्रसारं निवा-
रयतीत्यर्थः । श्लेषात् हस्तनिरोधिनीत्यपि स्फुरति । अनल्पाभ्यसूयः
गाढान्तर्गतविद्वेषः । यथा प्रणयापराधगाढकुपितायाः प्रियायाः
प्रसादनाय प्रयतमाने प्रचलमदनवाणपरिक्षीणे प्राणेश्वरे, तदीयहृदय-
मजानानः कश्चिन्मित्रजडः प्रसरदश्रुचिन्दुप्रबन्धप्रकटितप्रसादप्रक्रमं
प्रियावदनं प्रमार्जयितुं प्रसारितं पाणि निवारयन्, किमनया प्रसादि-
"
 
9