This page has been fully proofread once and needs a second look.

५८
 
मेघसंदेशे
 
क्लबत्वयोरतिवैधर्म्यादघटमानत्वमिति विषमालंकारः ॥ ३७ ॥

 
तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
 

रात्रिं नीत्वा चिरविलसनात्खिन्नविद्युत्कलत्रः ।

सूर्ये दृष्टे पुनरपि भवान्वायेदभ्ध्वशेषं
 

मन्दायन्ते न खलु सुहृदामग्र्भ्युपेतार्थकृत्याः ॥ / भ्यु

 
अथानुभूतोज्जयिनीरसचरितार्थस्यास्यानन्तरकरणीयमाह- ता-
ता-
मिति । तां या परमेश्वरसेवायै प्रतिपालिता नीतभूयिष्ठा च ताम् ।

कस्यांचिदिति, सर्वत्र वाससौख्यं द्योतयति । भवनवलभौ गृहविट-

ङ्किकायाम् । अथवा भवनकूटेषु । 'कूटाकारं तु वलभिः' इति

वैजयन्तीःती । सुप्तपारावतायां सुखसुप्तानां कलरवाणामनुपमर्देनेत्यर्थः ।

अथवा तत्सवर्णतया कैश्चिदप्यपरिज्ञात इति । रात्रिरिं नीत्वा न पुनः

खेदं नीत्वा, खेदनयनस्य पूर्वमेवोक्तत्वात्; रात्रिनयनमेव तदानीं

तवापेक्षितमिति भावः । चिरविलसनात् मार्गप्रदर्शनसंरम्भेण चिर-

कालपरिस्फुरणात् । खिन्नविद्युत्कलत्रः परिश्रान्ता विद्युद्रूपा भार्या यस्य;

भवतः श्रमाभावेऽपि तदर्थमपि क्वचिद्विश्रमो युक्त इति भावः ।

सूर्ये दृष्ट इति, न त्वरुणोदयमात्रे; अनेन तरुणकिरणकलिततमसि

गगनसरणिमशिशिरमसि समुपसरति सति दिवसमुखविततललित-

विविधचरितमधिकरुचिरमवनिपनगरं तदतिकुतुकमनुभूयैव गन्तव्य -

मिति द्योत्यते । पुनरपि उज्जयिनीमहाकालदर्शनोत्सवनिवृत्तोऽपीति,

पुनःशब्दो व्यावृत्तौ । 'पुनरप्रथमे प्रभेश्ने व्यावृत्ताववधारणे' इति
बै

वै
जयन्ती । प्रस्तुतस्य मार्गस्य भूयोऽपि गमनमित्यर्थो न घटते, शेषश-