2023-02-17 12:54:36 by ambuda-bot
This page has not been fully proofread.
मेघसंदेशे
वा गजाजिनालम्बि दुकूलधारि वा। कपालि वा स्यादथवेन्दुशेखरं न
विश्वमूर्तेरबघार्यते वपुः ॥' इति क्वचिदप्यैकान्तिकरसस्य दूरोत्सार
णात् । शान्तोद्वेगः प्रचण्डताण्डवोद्दण्डभुजतरुषण्डस्य खण्डपरशो-
र्जगदण्डखण्डनक्षमेषु मण्डलभ्रमणसंभ्रमेषु धैर्यावलम्बेन नियन्त्रित
भयविकारः । स्तिमितनयनं कामचारिणो विषयरसिकस्यास्य कथमी-
दृशी भक्तिरुत्पन्नेति विस्मयविकसितनिभृतनयनकुवलयम् । भवान्या
परमेश्वरस्य निरतिशयैश्वर्यसर्वस्वभूतया शरीरार्धस्वामिन्या देव्या पार्व-
त्या; तद्दर्शनेऽपि न भवानुग्रहफलसिद्धौ व्यभिचारः, शिवस्यापि भ
क्तानुग्रहकरणे तन्मुखप्रेक्षित्वादिति भावः; 'यथा शिवस्तथा देवी
यथा देवी तथा शिवः । ना॒नयोरन्तरं विद्याञ्चन्द्रचन्द्रिकयोरिव ॥
इति वायूक्तेः, 'परो हि शक्तिरहितः शक्तः कर्तुं न किंचन । शक्क-
स्तु परमेशो हि शक्त्या युक्तो यदा भवेत् ॥' इत्यागमाच्च । दृष्टभ-
क्तिः प्रत्यक्षीकृतभक्तिकार्यः, न तु श्रुतभक्तिः । अनेन सद्य एव फल-
प्राप्तिर्भाविनीति द्योत्यते; 'भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि
पुरः फलानि इत्युक्तत्वात् । अत्र सदृशानुभवाद्वस्त्वन्तरस्मृतिलक्षणं
स्मरणमलंकारः ; यथा- 'बैईष्टोऽसि तदा ललाटपतितप्रासप्रहारो
युधि स्फीतासक्स्रुतिपाटलीकृतपुरोभागं परान्दारयन् । तेषां दुःसह.
कामदेवदहनप्रोद्भूतनेत्रानलज्वालालीभरभासुरे स्मररिपा
कौतुकम् ' इत्यत्र ॥ ३६ ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।