2023-02-17 12:54:35 by ambuda-bot
This page has not been fully proofread.
r त्ता
प्रथमाश्वासः ।
५५.
रसावहत्वम्; सानुरागाकूतमेव प्रसरादिति भावः । अत्र स्वभावोक्तिः
परिवृत्तिरलंकारः ॥ ३५ ॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्यारम्भे हर पश्चपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगः स्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
-
अथ देवदेवस्य सेवायां प्रकृष्टं प्रकारान्तरमाइ – पश्चादिति ।
पश्चात् पटहकृत्यानुष्ठानानन्तरम् । अथवा पृष्ठभागे, करिकृत्तिप्रावर-
णौचित्यात् । उच्चैः ऊर्ध्वंकृतम् । भुजतरुवनं वृत्तोत्तुङ्गकठिनाय-
तत्वैर्भुजेषु तरुत्वारोपणम्, बाहुल्याद्वनोतिः । मण्डलेन वर्तुलेना-
कारेण । अभिलीनः आश्रितः । सान्ध्यं संध्याकालसंबन्धि । तेज:
प्रभाविशेषम्। प्रतिनवजपापुष्परक्तं तत्कालविलसितरुद्रपुष्पवत्स्निग्धा-
रुणम्। दधानः मेघानां संध्याकाले तत्संबन्धित्वनियमात्, 'संध्यापयो-
दकपिशाः पिशिताशनानाम्' इत्यादिप्रयोगदर्शनात्, अनुभावाच।
नृत्तारम्भे आनन्दताण्डवप्रक्रमे । हर अपनय । आर्द्रनागाजिनेच्छां
नबोत्पाटितत्वात्क्षरदरुणरुधिररञ्जित कुञ्जरत्वक्प्रावरणाभिलाषम्, तद्रू-
पसाम्यसाकल्येन भवतैव तत्कार्यस्यानुष्ठानात् । पशुपतेरार्द्रनागा-
जिनेच्छामिति । त्रिभुवनपतेरात्मारामस्य कामरिपोराशापाशानुपहृत-
त्वेन तादृशेष्वेवोपेक्षणीयेषु भावौचित्यादिति भावः; न तु नागाजि-
ननिर्बन्धपरम् ; तथा कुंमारसंभवे — — विभूषणोद्भासि पिनद्धभोगि