This page has been fully proofread once and needs a second look.

r त्ता
 
प्रथमाश्वासः ।
 
५५.
 
रसावहत्वम्; सानुरागाकूतमेव प्रसरादिति भावः । अत्र स्वभावोक्तिः

परिवृत्तिरलंकारः ॥ ३५ ॥
 

 
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
 

सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।

नृत्यातारम्भे हर पश्चशुपतेरार्द्रनागाजिनेच्छां
 

शान्तोद्वेगः स्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
 
-
 

 
अथ देवदेवस्य सेवायां प्रकृष्टं प्रकारान्तरमाइ –ह-- पश्चादिति ।

पश्चात् पटहकृत्यानुष्ठानानन्तरम् । अथवा पृष्ठभागे, करिकृत्तिप्रावर-

णौचित्यात् । उच्चैः ऊर्ध्वंकृतम् । भुजतरुवनं वृत्तोत्तुङ्गकठिनाय-

तत्वैर्भुजेषु तरुत्वारोपणम्, बाहुल्याद्वनोक्तिः । मण्डलेन वर्तुलेना-

कारेण । अभिलीनः आश्रितः । सान्ध्यं संध्याकालसंबन्धि । तेज:

प्रभाविशेषम्। प्रतिनवजपापुष्परक्तं तत्कालविलसितरुद्रपुष्पवत्स्निग्धा-

रुणम्। दधानः मेघानां संध्याकाले तत्संबन्धित्वनियमात्, 'संध्यापयो-

दकपिशाः पिशिताशनानाम्' इत्यादिप्रयोगदर्शनात्, अनुभावाच्च।

नृत्तारम्भे आनन्दताण्डवप्रक्रमे । हर अपनय । आर्द्रनागाजिनेच्छां
नबो

नवो
त्पाटितत्वात्क्षरदरुणरुधिररञ्जित कुञ्जरत्वक्प्रावरणाभिलाषम्, तद्रू-

पसाम्यसाकल्येन भवतैव तत्कार्यस्यानुष्ठानात् । पशुपतेरार्द्रनागा-

जिनेच्छामिति । त्रिभुवनपतेरात्मारामस्य कामरिपोराशापाशानुपहृत-
हत-
त्वेन तादृशेष्वेवोपेक्षणीयेषु भावौचित्यादिति भावः; न तु नागाजि-

ननिर्बन्धपरम् ; तथा कुंमारसंभवे — —-- विभूषणोद्भासि पिनद्धभोगि