This page has been fully proofread once and needs a second look.

५४
 
मेघसंदेशे
 
पादन्यासक्वणितरशनास्तव लीलावधू
तै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।

वेश्यास्त्वत्तो नखपदसुखान्माप्य वर्षाग्रबिन्दू-

नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥
 
-
 

 
अथास्यानङ्गरिपुसेवायामानुषङ्गिकं फलान्तरमाह -- पादेति ।

पादन्यासक्वणितरशनाः परमेश्वरस्य प्रदोषयात्रानुरूपं चरणसंचरणेन

रणितमणिमेखलाः । तत्र महाकाले । लीलावधूतैः विलासमृदुसं-

चारितैः । रत्नच्छायाखचितवलिभिः दण्डप्रत्युप्तवज्रादिरत्नप्रभापट-

लावकुण्ठितमूलमध्याग्रगतशिल्परेखैः । अथवा रत्नप्रभानुविद्धमध्य-

वलित्रयैः । चामरैः सेवार्यैथैश्चमरीवालव्यजनैः । लीलावधूतैः क्लान्त-

हस्ता इति, वेगावधूतैस्तु कीदृशी दशा भाविनीति तेषां सौकुमार्या-

तिशयचमत्कारो ध्वन्यते । वेश्याः परिवारवारवनिताः । नखपदसु-

खान् नवीनानां नखपदाङ्कानां वेदनानिवारकत्वेन सुखकरान् । सुख-

शब्दो गुणिनि गुणेऽपि च वर्तते; यथा रघुवंशे-- 'दिशः प्रसेदु-

र्मरुतो ववुः सुखाः' इति । अग्रबिन्दून् प्रथमजलकणान्, अन्येषा-

मुद्वेगजनकत्वात् । आमोक्ष्यन्ति आभरणं करिष्यन्ति, आमोचनस्य

परिष्कारपर्यायत्वात् ; यथा रघुवंशे-- 'आमुञ्चतीवाभरणं द्विती-

यम्' इति, 'आमुमोच तनुच्छदम्' इति च । मधुकरश्रेणिदीर्घान्

भ्रमरमालावदायतान्, साहचर्यात् स्निग्धश्यामलानित्यपि प्रतीयते;

' धर्मयोरेकतरनिर्देशेऽन्यसंवित्साहचर्यात्' इति लक्षणात् । कटाक्षान्

अपाङ्गभागनिर्गतान्नयनमरीचिनिचयान्, तेषां साकल्यनिरीक्षणादपि