2023-02-17 12:54:35 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः ।
;
नावकाश इति भावः । महाकालमिति स्थानस्य संज्ञा, 'असौ महा-
कालनिकेतनस्य वसन्नदूरे किल चन्द्रमौले: । तमिस्रपक्षेऽपि सद्द
प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥' इत्युक्तत्वात् । व इति
'कृत्यानां कर्तरि वा' इति षष्ठी । तावदित्यध्याहार्यम्, यावदि-
त्युक्तेः। नयनविषयं नेत्रगोचरं देशम् । यावत्सूर्यास्तमयमवस्था-
नस्य महाफलप्रतिपादनेनावश्यकर्तव्यतामाह – कुर्वन्निति । संध्या-
बलि: सायंसंध्याकाळपूजोपहारः । 'बलि: पूजोपहारे च दैत्यमेदे
करेऽपि च ' इति वैजयन्ती । पटहः आनकवाद्यविशेषः । 'आनकः
पटहो शेयः' इत्यमरः । शूलिन इति । तीक्ष्णतरदण्डसाधनविशिष्ट-
त्वोक्तेर्जगदण्डदण्डधरस्य खण्डपरशोः प्रसादे जगत एव प्रसाद इति
भावः : 'ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः । न स चेदी-
शतां कुर्याजगतां कथमीश्वरः ॥' इति, 'वृक्षस्य मूले सेकेन शाखा:
पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत्पुष्प्यत्यस्य वपुर्जगत् ॥' इति
च वायूक्तेः । अत एव श्लाघनीयां सजनप्रशंसायोग्याम् । आमन्द्राणां
गम्भीराणाम् । 'मन्द्रो गम्भीर उच्यते' इत्यमरः । अविकलम्
अन्यूनम्, 'कर्तुं यच्च' इत्यादिना पूर्वमपि फलवत्त्वोक्तौ तस्यैहि-
कक्षुद्रफलरूपत्वादविकलत्वं नास्ति; अद्य तु परमेश्वरप्रसादहे-
तुत्वादविकलफललाभ इति भावः ; ' तस्मिन् प्रसन्ने किमिहास्य-
लभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निः संशयः
पक्वफलप्रपाकः ॥' इति श्रीविष्णुपुराणवचनात् । रूपकमलंकारः,
बलिपटहत्वेनास्य रूपितत्वात् । अतिशयोक्तिर्वा, अध्यवसायात् ।
अथवा पटहकरणस्य असंबन्धादुपमापरिकल्पकत्वेन निदर्शना ॥.