This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
;
 
नावकाश इति भावः । महाकालमिति स्थानस्य संज्ञा, 'असौ महा-

कालनिकेतनस्य वसन्नदूरे किल चन्द्रमौले: । तमिस्रपक्षेऽपि सद्द

प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥' इत्युक्तत्वात् । व इति
त इति
'कृत्यानां कर्तरि वा' इति षष्ठी । तावदित्यध्याहार्यम्, यावदि-

त्युक्तेः। नयनविषयं नेत्रगोचरं देशम् । यावत्सूर्यास्तमयमवस्था-

नस्य महाफलप्रतिपादनेनावश्यकर्तव्यतामाह – कुर्वन्निति । संध्या-

बलि: सायंसंध्याकापूजोपहारः । 'बलि: पूजोपहारे च दैत्यमेभेदे

करेऽपि च ' इति वैजयन्ती । पटहः आनकवाद्यविशेषः । 'आनकः

पटहो शेज्ञेयः' इत्यमरः । शूलिन इति । तीक्ष्णतरदण्डसाधनविशिष्ट-

त्वोक्तेर्जगदण्डदण्डधरस्य खण्डपरशोः प्रसादे जगत एव प्रसाद इति

भावः :; 'ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः । न स चेदी-

शतां कुर्याजगतां कथमीश्वरः ॥' इति, 'वृक्षस्य मूले सेकेन शाखा:

पुष्यन्ति वै यथा । शिवस्य पूजया तद्वत्पुष्प्यत्यस्य वपुर्जगत् ॥' इति

च वायूक्तेः । अत एव श्लाघनीयां सज्जनप्रशंसायोग्याम् । आमन्द्राणां

गम्भीराणाम् । 'मन्द्रो गम्भीर उच्यते' इत्यमरः । अविकलम्

अन्यूनम्, 'कर्तुं यच्च' इत्यादिना पूर्वमपि फलवत्त्वोक्तौ तस्यैहि-

कक्षुद्रफलरूपत्वादविकलत्वं नास्ति; अद्य तु परमेश्वरप्रसादहे-

तुत्वादविकलफललाभ इति भावः ; ' तस्मिन् प्रसन्ने किमिहास्त्य-

लभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निः संशयः

पक्वफलप्रपाकः ॥' इति श्रीविष्णुपुराणवचनात् । रूपकमलंकारः,

बलिपटहत्वेनास्य रूपितत्वात् । अतिशयोक्तिर्वा, अध्यवसायात् ।

अथवा पटहकरणस्य असंबन्धादुपमापरिकल्पकत्वेन निदर्शना ॥.