This page has been fully proofread once and needs a second look.

;
 
प्रथमाश्वासः ।
 
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ।

धूतोद्यानं कुबलयरजोगन्धिभिर्गन्धवत्या-

स्तोयक्रीडाविरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥३३॥
 

 
अथ परमेश्वरपरिसरमुपसरतस्तव तद्दर्शनात्पूर्वमेव सौभाग्यभाग्य-

भाजनता भविष्यतीत्यनुवादमुखेनाह-- भर्तुरिति । भर्तुः स्वामिनः,

इति सादरत्वे हेतुः । कण्ठच्छविः कण्ठच्छविसदृशच्छविः। 'शोभा का-
न्तिर्

न्तिर्द्
युतिश्छविः' इत्यमरः । कालकूटमृगमदकलितकालिमस्निग्धत्वा-

त्परमेश्वरकण्ठस्य तत्सवर्णतया तदनुस्मारकं भवन्तं माभाग्यराशिरयमि

ति सबहुमानं पार्षदाः परमेश्वरहृदयभूताः प्रेक्षिष्यन्ते ; किमतः परं

सुकृतफलमिति भावः । पुष्यं पापहरम् । त्रिभुवनगुरोः विशिष्ट-

ज्ञानप्रदानात्सर्वलोकमान्यस्य, 'अष्टादशानामेतानां विद्यानां भिन्न-

वर्त्मनाम् । आंदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः' इति

वायूक्तेः । अथवा पितामहस्यापि पितृत्वात् त्रिभुवनगुरुः, 'योऽग्रे

मां विदधे पुत्रं छन्दश्च प्रहिणोति मे' इति वायूतेः । घाक्ते । धाम आल-

यम् । पुण्यं धामेत्युक्तेर्घाधाम्न एव दर्शनादिभिः पापहरणसामर्थ्
ये
ध्वन्यते, 'दूरतः शिखरं दृष्ट्रावा नमस्कुर्याच्छिवालयम् । सप्तजन्मकृतं

पापं तत्क्षणादेव नश्यति' इति श्रीनन्दिकेश्वरवचनात् । चण्डेश्वरस्य-

चण्डः क्रूरः संहर्तृत्वात्, ईश्वरः नियामकत्वात्प्रपञ्चस्य यः, तस्य ;

अथवा गौरीपतेः । अनेनातिक्रमे श्रेयः प्रतिबन्धकत्वमपि स्यादिति

द्योत्यते । न केवलमामुत्रिकं कालान्तरभावि; तादात्विकं वैषयिकमपि