2023-02-17 12:54:35 by ambuda-bot
This page has not been fully proofread.
मेघसंदेशे
।
लेति । जालोद्गीर्णै: गवाक्षविवरनिष्ठ यूतैः । 'जालं गवाक्ष आनाये
इति वैजयन्ती । अयत्नलभ्यत्वमनेन द्योत्यते । उपचितवपुः आप्या-
यितशरीरः, धूमस्यैब मेघाकारपरिणामात्; यथा हर्षचरिते-
'स्वमपि धूममम्भोदसंभूतिभियेव भक्षयन्तः' इति । केशसंस्कार-
धूपैः शिरोरुहाधिवासनार्थैरगरुचन्दनादिचूर्णावकीर्णहुतबहोगीर्णतया
सुगन्धितैर्धूमैः । 'धूमस्तरिर्मेघवाही धूपोऽसौ गन्धवासितः' इति
वैजयन्ती । बन्धुप्रीत्या सुहृदयमस्माकमागत इति हर्षेण । भवन-
शिखिभिः क्रीडार्थे गृहेषु संवर्धितैर्मयूरैः । इम्र्म्येध्विति । गिरिशिखर-
वदभ्रंलिहत्वाद्विश्रमौचित्यम्, बहुवचनेन विविधवृत्तान्तकान्ततया तत्र
तत्र रसानुरोधेन विद्दर्तव्यमिति च व्यज्यते । अस्याः उज्जयिन्याः ।
कुसुमसुरभिषु उपहारपुष्पादिभिः सुरभिषु । ललितवनितापादरागा-
ङ्कितेषु लावण्यवर्षिणीनां स्त्रीणां दयितदर्शनसंभ्रमादिभिरार्द्ररागमेव
निहितानां चरणानां यावकरसेन चिह्नितेषु, अथवा पादानामेव
कान्त्या लिप्तेप्वि॑ति, तासां दा संनिधानं ध्वनितम् । 'रागोऽनुरागे
लाक्षादौ त्विषि' इति वैजयन्ती । आभ्यां लोकोत्तरोद्दीपनालम्बन-
विभावसंपत्त्या रसोल्लासो ध्वन्यते । अध्वखिन्नान्तरात्मा मार्गगमन-
तान्तेन शरीरेण विगलितोत्साहं मनो यस्य सः; यथा वैद्यके-
मनः
तः शरीरयोस्तापः परस्परमभिव्रजेत् । आधाराधेयभावेनं तप्ताज्य-
घटयोरिव ॥' इति। खेदं नीत्वा श्रमं गमयित्वा, इत्यनुवादेनायत्न-
साध्यत्वमुक्तम् । नीत्वेत्यस्य याया इत्युत्तर श्लोकगतेनान्वयः । अत्ना-
नुष्ठितमृष्टभोजनस्य जनपदजनोपहारमुदितस्याभिमतविषयोपस्थान-
हृद्यप्रासादविहारिणो धरणीपतेः समाधिरनुसंधेयः । उदात्तमलंकारः ॥
6
"