This page has been fully proofread once and needs a second look.

मेघसंदेशे
 

 
लेति । जालोद्गीर्णै: गवाक्षविवरनिष्ठ्यूतैः । 'जालं गवाक्ष आनाये
'
इति वैजयन्ती । अयत्नलभ्यत्वमनेन द्योत्यते । उपचितवपुः आप्या-

यितशरीरः, धूमस्यै मेघाकारपरिणामात्; यथा हर्षचरिते-
-
'स्वमपि धूममम्भोदसंभूतिभियेव भक्षयन्तः' इति । केशसंस्कार-

धूपैः शिरोरुहाधिवासनार्थैरगरुचन्दनादिचूर्णावकीर्णहुतहोद्गीर्णतया

सुगन्धितैर्धूमैः । 'धूमस्तरिर्मेघवाही धूपोऽसौ गन्धवासितः' इति

वैजयन्ती । बन्धुप्रीत्या सुहृदयमस्माकमागत इति हर्षेण । भवन-

शिखिभिः क्रीडार्थे गृहेषु संवर्धितैर्मयूरैः । इम्र्म्येध्ष्विति । गिरिशिखर-

वदभ्रंलिहत्वाद्विश्रमौचित्यम्, बहुवचनेन विविधवृत्तान्तकान्ततया तत्र

तत्र रसानुरोधेन विद्दर्तव्यमिति च व्यज्यते । अस्याः उज्जयिन्याः ।

कुसुमसुरभिषु उपहारपुष्पादिभिः सुरभिषु । ललितवनितापादरागा-

ङ्कितेषु लावण्यवर्षिणीनां स्त्रीणां दयितदर्शनसंभ्रमादिभिरार्द्ररागमेव

निहितानां चरणानां यावकरसेन चिह्नितेषु, अथवा पादानामेव

कान्त्या लिप्तेप्वि॑ष्विति, तासां दा संनिधानं ध्वनितम् । 'रागोऽनुरागे

लाक्षादौ त्विषि' इति वैजयन्ती । आभ्यां लोकोत्तरोद्दीपनालम्बन-

विभावसंपत्त्या रसोल्लासो ध्वन्यते । अध्वखिन्नान्तरात्मा मार्गगमन-

तान्तेन शरीरेण विगलितोत्साहं मनो यस्य सः; यथा वैद्यके-
-
मनः
 
तः
शरीरयोस्तापः परस्परमभिव्रजेत् । आधाराधेयभावेनं तप्ताज्य-

घटयोरिव ॥' इति। खेदं नीत्वा श्रमं गमयित्वा, इत्यनुवादेनायत्न-

साध्यत्वमुक्तम् । नीत्वेत्यस्य याया इत्युत्तर श्लोकगतेनान्वयः । अत्ना-
रा-
नुष्ठितमृष्टभोजनस्य जनपदजनोपहारमुदितस्याभिमतविषयोपस्थान-

हृद्यप्रासादविहारिणो धरणीपतेः समाधिरनुसंधेयः । उदात्तमलंकारः
 
6
 
"
 
।।