This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
दशकुमारचरिते-- 'त्रिभुवनसर्गस्थितिसंदाहारसंबन्धिनीभिः कथाभिः

प्रत्यानीयमानरागपूरा न्यरूपयत्' इति । 'चटुश्चाटुः प्रियं वाक्यम्'

इत्यमरः । अत्र तारमधुराणां सारसरसितानां मन्मथोद्दीपनत्वेन तजन-

कत्वात्सुखशीतलत्वम्, कषायत्वात्सौरभ्यम्, अङ्गानुकूलत्वान्मान्वं
द्यं
च वायुगुणाः प्रकाशिताः । किं च सरससज्जनवल्लभत्वात्, रसनं

शब्दनं तत्सहितत्वाद्वा, सारसा: वन्दिनः, तेषां कूजितं लक्षणया

स्तुतिगीतिमङ्गलं स्वसंनिधानेन तारं कुर्वन् । कमलामोदसदृशामों
मो-
दविशिष्टश्चेति प्रियतमेऽपि योज्यम् । स्त्रीणां प्रियतमानुकूल्यप्रार्थनया

सान्त्वप्रयोक्तेति वातेऽपि प्रत्यूषेष्वित्यनेन सकलसमृद्धिभा जनतया

प्रवृत्त्यन्तरव्यग्रताभावात्प्रत्रलोद्दीपनसंनिधानाञ्च्च पौराणामविरतरसि -
-
कत्वं ध्वनितम्; शिप्रावात इत्यनेन सर्वर्तुसुखेषु तत्तटोद्यानेषु विद्दर-
हर-
णशरणत्वं च ; तथा रघुवंशे-- 'अनेन यूना सह पार्थिवेन रम्भोरु

कच्चिन्मनसो रुचिस्ते । शिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरं-

परासु' इति लोकोत्तरेण रूपेण शिप्रातटोद्यानानां परमोद्दीपनत्वं

ध्वनितम् । अत्रोपमा सहोक्तिरलंकारः ॥ ३१ ॥
 

 
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-

र्ब
न्धुमीप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।

हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा
 

स्वेदं नीत्वा ललितवनितापादरागाङ्कितेषु ॥३२॥

 
अथ विशालां प्रविश्य विगलितसरणिखेदप्रसन्नचेतसा भवता

दुरितभरहरणबन्धुरिन्दुमौलिकपसर्रुपसर्प्तव्य इत्याह श्लोकद्धयेन- -जा
 
M 4