This page has been fully proofread once and needs a second look.


स्पर्शिनोऽपि स्वर्गस्योत्पत्तेः । एकं मुख्यम् । 'मुख्यान्यकेवलेष्वेकः'
इति वैजयन्ती । मुख्यत्वमेवोपपादयति-- कान्तिमत् साक्षात्स्वर्ग-
तोऽपि शोभातिशययुक्तम् । 'मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः'
इत्युक्तत्वात् मनःप्रीतिकरत्वस्यातिशयेनात्र विद्यमानत्वादिति भावः ।
अत्रोत्प्रेक्षालंकारः ॥ ·
 
दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥५०॥
 
अथ पुरप्रवेशात्पूर्वमेव शिप्रापवनसेवनेन कमलपरिमलाधिवासि-
ततदीयसलिलकबलेन च तवाध्वश्रमः शममुपेष्यतीति द्योतयन्,
मदनसाम्राज्यनिर्वाहकतां पुरस्य प्रतिपादयति - दीर्घीकुर्वन्निति ।
पटुमदकलं अनल्पेन कमलमधुजनितेन मदेन मधुरम् । अथवा
पटु स्पष्टमिति कूजितविशेषणम् । शीतलस्पर्शसुखानुभवेन दीर्घ-
त्वम्, कालस्वरूपतो वा, अथवा निद्राविरामजनकत्वात् ।
'प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि' इति सिंहः। स्फुटि-
तम् ईषद्दलितमुखम्, तदानीं परिमलस्य बाहुल्यात् । मैत्री संश्ले-
षातिशयः, कषायः सुरभिः । सुरतग्लानिं संभोगावसानसंभृतां व्या-
पारनिःसहताम्। अङ्गानुकूलः मन्दसुन्दरस्पर्शतया चरणनलिनसंवाह-
नादिभिश्च । शिप्रावात: शिप्रानाम्नो नद्याः संबन्धी वायुः । प्रार्थनाचा-
टुकारः पुनः संभोगयाच्ञायां रागप्रत्यानयनाय प्रियवचनप्रयोक्ता; यथा