This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
विहारवत्सलस्य वत्सेशितुरुदयनस्यावन्तिनगरनाथेन महासेनेन मा-

यया स्वविषयमुपनीय चारके निगलितस्य यौगन्धरायणाख्यसचि

मुख्यप्रयुक्तनिरपायनयोपायव्यक्तीकृतशक्तित्रयस्य वासवदत्ताभि-

धाने दुहितृरत्नेन सह महासेनस्य कीर्तिमपहृत्य स्वविषयप्रासिप्तिल-

क्षणा या कथा, तस्यां विदग्धाः ग्रामेषु वयः परिणताः पुरुषा

येषु । अनेन रससुधोत्स्राविणो वत्सराजचरितस्य तन्मुखेन सतता-

स्वादनाज्जनपदजनस्यापि रसैकशरणत्वमुक्तम् । पूर्वोद्दिष्टां वक्रः
 

पन्थास्तव भवतु चेत्यादिना पूर्वमुपदिष्टाम् । श्रीविशालां विशाले-

त्युज्जयिन्याः संज्ञान्तरम् । 'विशालोज्जयिनी समे' इत्यमरः । तस्या

भुक्तिमुक्तिक्षेत्रत्वात्पूजायां श्रीशब्दप्रयोगः। विशालाम् अमितचतुरङ्ग-

बलजलधिसांनिध्येऽप्यसंकटविशिखामुखाम् । अथवा श्रिया धनधा-

न्यादिलक्षणया लक्ष्म्या विस्तृताम्, विशालां नाम्ना । विशालत्वेनोत्प्रे-

क्षते-- स्वल्पीभूत इति । सुचरितम् अश्वमेधादिकर्मनिष्पाद्यं पुण्यजातं

तस्य फलं विशिष्टभोगसाधनसंपत्तिः तस्मिन्, भोगेन क्षीणप्राये ।

स्वर्गिणां कर्मदेवानाम् । गां गतानां भूमिं पुनः प्राप्तानाम् 'क्षीणे

पुण्ये मर्त्यलोकं विशन्ति' इति स्मृतेः । शेषैः फलदेभ्योऽन्यैः । 'अथ
शै

शे
षस्त्रिष्वन्यस्मिन्नुपयुक्ततः' इति वैजयन्ती । ' ताः पिबन्ति मदा-

युक्ता जलदादिषु ये स्थिताः । वर्षे तु ते जनपदाः स्वर्गादभ्येत्य मे-

दिनीम् ॥' इति श्रीविष्णुपुराणे, 'प्राप्य पुण्यकृतां लोकानुषित्वा

शाश्वतीः समाः । शुचिनां श्रीमतां गेहे योगभ्रष्टो विजायते ॥' इति

भगवद्वचने च पुण्यशेषज्ञापनात् । कृतं उपस्थापितम् । खण्डम्

एकदेशम्, 'वर्षद्वयं तु मैत्रेय भौमः स्वर्गोऽयमुत्तमः' इत्युकैक्तेर्भूमि-