2023-02-17 12:54:34 by ambuda-bot
This page has not been fully proofread.
मेघसंदेशे
विरहावस्थया वियोगे भवन्त्या स्वदशया । व्यञ्जयन्ती न केवलं
मनसा निरूपयन्ती, अपि तु त्रपानाशलक्षणेन दशान्तरेण सर्वजन-
साक्षिकं प्रकाशयन्तीत्यर्थः । काये जलहीनताम्, शरीरतनुतां
च । येन विधिना विधीयत इति विधिः कर्म, येनं कर्मणा वर्ष-
णाख्येन, समागमरूपेण च । त्वयैवोपपाद्यः अस्मिन्नर्थे न तु कश्चि-
दन्य उपायः, 'स्मरज्वरश्चिकित्स्यो हि दयितालिङ्गनामृतैः' इत्यु-
क्तत्वात् ; तथा च श्रीमहाभारते — 'मितं ददाति हि पिता
मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न
पूजयेत् ॥' इति । वृष्टिकार्यस्यापि कर्त्रन्तराभावादित्यर्थः । अत्र
प्रवासावसाने विरहविधुरितायाः प्रियायाः परिभोगो रसस्य परा
काष्ठेति द्योत्यते, यथाइ कविवल्लभः 'प्रवासान्ते पाण्डुमुखीं
क्षामामुपचितस्मराम् । दिवसान्निर्विशेः कांश्चिदकर्कशतरां प्रियाम् ॥'
इति । अत्र समासोक्तिरलंकारः ॥ २९ ॥
.
-
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
न्पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैः कृतमिव दिवः कान्तिमत्खण्डमेकम् ॥
अथ सिन्धुमतिक्रम्य किंचिदन्तरं गत्वा मालवविषयं प्राप्य तद-
लंकारभूतामुजयिनीं प्रविशेत्याह – प्राप्यावन्तीनिति । 'मालवा:
स्युरवन्तयः' इति वैजयन्ती । उदयनकथाको विदग्रामवृद्धान् उद-
यन इति वत्सराजस्य सांस्कारिकं नाम कौशाम्बीपतेर्गजवन-