This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
विरहावस्थया वियोगे भवन्त्या स्वदशया । व्यञ्जयन्ती न केवलं

मनसा निरूपयन्ती, अपि तु त्रपानाशलक्षणेन दशान्तरेण सर्वजन-

साक्षिकं प्रकाशयन्तीत्यर्थः । कार्श्ये जलहीनताम्, शरीरतनुतां

च । येन विधिना विधीयत इति विधिः कर्म, येनं कर्मणा वर्ष-

णाख्येन, समागमरूपेण च । त्वयैवोपपाद्यः अस्मिन्नर्थे न तु कश्चि-

दन्य उपायः, 'स्मरज्वरश्चिकित्स्यो हि दयितालिङ्गनामृतैः' इत्यु-

क्तत्वात् ; तथा च श्रीमहाभारते-- 'मितं ददाति हि पिता

मितं भ्राता मितं सुतः । अमितस्य तु दातारं भर्तारं का न

पूजयेत् ॥' इति । वृष्टिकार्यस्यापि कर्त्रन्तराभावादित्यर्थः । अत्र

प्रवासावसाने विरहविधुरितायाः प्रियायाः परिभोगो रसस्य परा

काष्ठेति द्योत्यते, यथा कविवल्लभः-- 'प्रवासान्ते पाण्डुमुखीं

क्षामामुपचितस्मराम् । दिवसान्निर्विशेः कांश्चिदकर्कशतरां प्रियाम् ॥'

इति । अत्र समासोक्तिरलंकारः ॥ २९ ॥
 
.
 
-
 

 
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-

न्पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।

स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
 

शेषैः पुण्यैः कृतमिव दिवः कान्तिमत्खण्डमेकम् ॥
३० ॥
 
अथ सिन्धुमतिक्रम्य किंचिदन्तरं गत्वा मालवविषयं प्राप्य तद-

लंकारभूतामुज्जयिनीं प्रविशेत्याह – प्राप्यावन्तीनिति । 'मालवा:

स्युरवन्तयः' इति वैजयन्ती । उदयनकथाको विदग्रामवृद्धान् उद-

यन इति वत्सराजस्य सांस्कारिकं नाम कौशाम्बीपतेर्गजवन-