This page has been fully proofread once and needs a second look.

प्रथमांश्वासः ।
 
४५
 

तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च वि-

मोचयन्ती शाखासु वल्कुलमसक्तमपि द्रुमाणाम् ॥' इति । विहगभ्श्रे-

णिकाञ्चीगुणध्वननादिरत्र विभ्रमः । रूपकानुगृहीता समासोचिरलं-

कारः ॥ २८ ॥
 

 
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः

पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।

सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती.

कार्येश्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
२९ ॥
 
अथ गृहीतसलिलस्य व्ययस्थलं वचोवैचित्र्या सूचयति-

वेणीति । त्रिधा पञ्चधा वा विभज्य दोराकारेण प्रथितः केशक-

लापो वेणी । सलिलस्य प्रतनुत्कावात् वेणीत्वोपपत्तिः । 'वेणी तु केश-

बन्धे जलस्रुतौ' इति वैजयन्ती । वेणीधारणं च विरहिणीनां प्रति-
सि-
द्ध
म् । तां निर्विन्ध्याम् । सिन्धुरिति नाम्ना प्रसिद्धा कापि नदी ।

पाण्डुच्छाया धवलशोभा । तत्त्वं दयितवियोगे तद्दर्शनोत्कण्ठिताया

भवति; यथा रत्नावल्याम्-- 'उद्दामोत्कलिकां विपाण्डुररुचं प्रार-

ब्जृम्भां क्षणादायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्या-

नलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युतिमुखं

देव्याः करिष्याम्यहम् ॥' इत्यत्र विपाण्डररुचमिति । तटरुहतरुभ्रं-

शिभिः तीरजातेभ्यस्तरुभ्यो विगलनशीलैः । जीर्णपर्णैः विपाक-

पाण्डुभिः पत्रैः । सौभाग्यं रमणीयवल्लभत्वम् । सुभगेति । यः सर्व-

स्यापि सुभगः, तस्मिंस्त्वयि तस्याः प्रार्थना शोभत एवेति भावः ।
 
-
 

 
-