This page has not been fully proofread.

घसंदेशे
 
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥
 
(
 
अथावन्तिनगरप्रयाणानुगुणं मार्गमुपदिशन्, यूथिकानिषेकवि-
रहितसलिलगौरवस्यास्य पयःपानस्थलं विच्छित्त्या प्रकाशयति–वी
चीति । स्वनितति पाठः, स्तनितस्य शकुने रशनाकलापे चाप्रसिद्धेः ।
तरङ्गसंघट्टनेन शब्दायमानानां पक्षिणां हंससारसचक्रवाकादीनामाव-
लिरेव रशनाकलापो यस्याः । स्खलितम् उपलादिसंघट्टनेन प्रति-
इतवेगत्वम्, व्याजेन गमनविइतिप्रकाशनं च, तेन सुभगं स्पृहणीयम् ।
सलिलवसनोच्छुसनेन प्रकाशिता आवर्त एव नाभिर्यस्याः । आ-
वर्तस्त्वम्भसां भ्रमः "
इत्यमरः । निर्विन्ध्येति संज्ञा । पथीति, कदा
मे प्रेयानागमिष्यतीति त्वन्मार्म निहितदृष्टेरिति व्यज्यते; अथवा
अनायासेनैव मध्येमार्गमुपपत्रं रसं कोऽवमन्येतेति द्योत्यते । रसाभ्य-
न्तरः संभोगरसावगाढः, जलमभ्यन्तरे यस्य स च; अथवा मधुर-
रसाभिज्ञः । संनिपत्य संगम्य । अमिश्रितवचनस्य तस्या विलास-
दर्शनमात्रेण कथं विसन्धमुपसर्पणमिति चेत्तत्राह- स्त्रीणामिति,
सहजलज्जाभूषणत्वात्स्वमुखोक्ताववैयात्यं द्योतयति । आद्यं प्रधानम् ।
प्रणयवचनं हृदयगतस्य प्रेम्णः कथनम् । विभ्रमः शृङ्गारचेष्टा ।
हिशब्दः प्रसिद्धौ; रसवित्सु प्रसिद्धोऽयमर्थ इत्यर्थः, रसपरिवाहत्वाद्वि-
लासानाम् ; तथा रघुवंशे– 'तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां
प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा
बभूवुः ॥' इति। शाकुन्तले च– - 'दर्भाडरेण चरणः क्षत इत्यकाण्डे
 
:
 
-
 
1