This page has not been fully proofread.

प्रथमाश्वासः ।
 
वक्रः पन्थास्तव भवतु च प्रस्थितस्योत्तराशां
सौधोत्सङ्गमणयविमुखो मा स्म भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापार्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥
 
अथ परमप्रयोजनोद्देशेन कमपि पथि विशेषं विदधाति — वक्रः
पन्था इति । उत्तराशां प्रस्थितस्येति । तस्यार्जवेनापि शक्यत्वे प्रयो-
जनापेक्षया वक्रेणैव पथा गन्तव्यमिति भावः । मा भूरिति निषेध-
मुखेन प्रतिपादनम्, अप्रविश्य गमनं मनसापि न चिन्तनीयमिति
द्योतयितुम् । सौधोत्सङ्गप्रणयविमुख इति, ललितविश्रमस्थानसंप-
तिरप्यस्तीति व्यज्यते । त्वत्कार्यार्थ गच्छतो मे प्रगुणमार्गविलङ्घि-
न्यां कथमुज्जयिन्यां प्रवेश इति चेत्तत्राह - विद्युद्दामेति । भवत्स-
इचारिण्याः सौदामन्याः परंपरायाः स्फुरणेन सत्रासैः । लोलापाङ्गैः
स्फुरणास्फुरणदशयोर्निमीलनोन्मीलनवशात् विभ्रमतरलतरकटाक्षैः ।
रमसे क्रीडसि मोदस इत्यर्थः । वञ्चितः प्रतारित: प्रमादभ्रंशित-
जन्मप्रयोजन इत्यर्थः । अतो मत्कार्यस्य किंचिद्विलम्बेऽपि भवजन्म-
वैफल्यपरिहारायोजयिनीप्रवेशः कर्तव्य एवेति भावः । अत्र अर-
मणे बञ्चनोचेस्तत्रत्ययोषितां विशिष्टगुणप्रतिपत्त्या व्यतिरेकोऽलंकारः,
निरुपमरूपवेषविलाससंपत्प्रकाशनेन निरतिशयशृङ्गारविभावताप्रति-
पादनाद्रसः, तदुपगमे सफलजन्मा भविष्यसीति वस्तु च योग्यते !!
वीचिक्षोभस्वनितविहगश्रेणिकाञ्चीगुणायाः
 
:
 
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।