This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
नदीतीरजानां धर्मनिर्मूलितस्रोतसां क्षुद्रनदीनां तीरजातत्वात् शोषो

न्मेषशोच्यानामित्यर्थः । उद्यानानामिति, सरसजनोपभोगयोग्यत्वा-

दवश्यरक्षणीयत्वं द्योत्यते । नवजलकणैरिति । धर्माभितप्तानां सद्यो

जलागाने रोगप्रसङ्गात् शनैः शनैरास्वादनं विधेयमित्यर्थः; यथा

वक्ष्यति-- 'तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां

सममभिनवैर्जालकैर्मालतीनाम्' इति । 'अथ मागधी । गणिका

यूथिकाम्बष्ठा' इत्यमरः । यूथिका पुष्पलताविशेषः । सौकुमार्याति
-
शयेन सुलभग्लानित्वाद्दयनीयताद्योतनाथैर्थे यूथिकाग्रहणम्। जालकं

समूहः, अथवा कुड्ङ्मलानि । 'कोरकजालककालकाकुड्कलिकाकुङ्मलमुकुलानि

तुल्यानि ' इति इलायुधः । निषिञ्चन् उत्पादयन्, अथवा नितरां

सिञ्चन्। 'मुसुखैर्निषिञ्चन्तमिवामृतं त्वचि' इत्यत्र सिञ्चतेरमृतं कर्मीभ
-
वति । अत्रतु जालकानीति ? मैवम् ; किरतिसिञ्चत्यादीनां कुसुमजा-

लादीनि कदाचित्करणीभवन्ति कदाचित्कर्मीवन्तीति परिहारः ।

गण्डेति। करतलेनादाय स्विद्यत्कपोलमुकुरप्रमार्जनं यत्, तज्जनितया

रुजा क्लेशेन विवर्णकर्णकुवलयानाम्। अनेन स्वररुचिमरीचिपरिचयविर-

चितेन वातादात्विकेन रूपेण सहृदयाखास्वाद्यत्वं ध्वनितम् । छायादानात्

अपरोचितपरमोपकारकरणात् । क्षणपरिचितः क्षणमात्रबन्धुः, सस्नेह-

बहुमानं निर्वर्णितत्वात् ; तावता किं न पर्याप्तम्, जन्मलाभस्य साफल्या-

दिति भावः । पुष्पलावीमुखानां पुष्पखण्डनपराणां युवतीनां यावतीति

भावः (?)
मुखानामिति, तासां कुसुमलवनकुतूहलाकुलितत्वेऽपि भव-

च्छायालाभवशेन स्वरसत एव सचमत्कारं त्वदभिमुखविवृतोत्तानलो-

चनत्वं मुखांखानां नियतं भावीति व्यज्यते । अत्र स्वभावोक्तिरलंकारः ॥'
 
S