This page has not been fully proofread.

मेघसंदेशे
 
नदीतीरजानां धर्मनिर्मूलितस्रोतसां क्षुद्रनदीनां तीरजातत्वात् शोषो
न्मेषशोच्यानामित्यर्थः । उद्यानानामिति, सरसजनोपभोगयोग्यत्वा-
दवश्यरक्षणीयत्वं द्योत्यते । नवजलकणैरिति । धर्माभितप्तानां सद्यो
जलाबगाइने रोगप्रसङ्गात् शनैः शनैरास्वादनं विधेयमित्यर्थः; यथा
वक्ष्यति- 'तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां
सममभिनवैर्जालकैर्मालतीनाम्' इति । 'अथ मागधी । गणिका
यूथिकाम्बष्ठा' इत्यमरः । यूथिका पुष्पलताविशेषः । सौकुमार्याति
शयेन सुलभग्लानित्वाद्दयनीयताद्योतनाथै यूथिकाग्रहणम्। जालकं
समूहः, अथवा कुड्मलानि । 'कोरकजालककालकाकुड्मलमुकुलानि
तुल्यानि ' इति इलायुधः । निषिञ्चन् उत्पादयन्, अथवा नितरां
सिञ्चन्। 'मुखैर्निषिञ्चन्तमिवामृतं त्वचि' इत्यत्र सिञ्चतेरमृतं कर्मीभ
वति । अत्रतु जालकानीति ? मैवम् ; किरतिसिञ्चत्यादीनां कुसुमजा-
लादीनि कदाचित्करणीभवन्ति कदाचित्कर्मीमवन्तीति परिहारः ।
गण्डेति। करतलेनादाय स्विद्यत्कपोलमुकुरप्रमार्जनं यत्, तजनितया
रुजा क्लेशेन विवर्णकर्णकुवलयानाम्। अनेन खररुचिमरीचिपरिचयविर-
चितेन वादात्विकेन रूपेण सहृदयाखाद्यत्वं ध्वनितम् । छायादानात्
अपरोचितपरमोपकारकरणात् । क्षणपरिचितः क्षणमात्रबन्धुः, सस्नेह-
बहुमानं निर्वर्णितत्वात् ; तावता किं न पर्याप्तम्, जन्मलाभस्य साफल्या-
दिति भावः । पुष्पलावीमुखानां पुष्पखण्डनपराणां युवतीनां यावतीति
भावः (१)
मुखानामिति, तासां कुसुमलवनकुतूहलाकुलितत्वेऽपि भव-
च्छायालाभवशेन स्वरसत एव सचमत्कारं त्वदभिमुखविवृतोत्तानलो-
चनत्वं मुखांनां नियतं भावीति व्यज्यते । अत्र स्वभावोक्तिरलंकारः ॥'
 
S